________________ '1 परिच्छेदः / सरखतीकण्ठाभरणम् / ' अस्यासदृशोपमत्वेऽपि व्यतिरेकोपपादकत्वाद्गुणत्वम् // उपमानस्येति / उपमानेन वैषम्यमन्वयेन सादृश्याभावात् / व्यतिरेकोपमादीत्यादिग्रहणाद्यतिरेकदृष्टान्तोक्त्यादिपरिग्रहः // यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते / अप्रसिद्धोपमं नाम तत्क्वचिनैव दुष्यति // 150 // / यथा 'उद्गर्भहूणरमणीरमणोपमर्द__ भुग्नोन्नतस्तननिवेशनिभं हिमांशोः / बिम्बं कठोरबिसकाण्डकडारगौरै विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति // 193 // ' अस्यां प्रसिद्धोषमत्वेन दूषणत्वेऽपि द्वयोरपि शृङ्गारोद्दीपकत्वसाम्याद्गुणत्वम् // यस्योपमानमिति / लोकप्रसिद्धमेव कविभिरुपमाने कान्तं भवति तेन यत्र लोके प्रसिद्धं तेन सहोपमावर्णने संभवदप्यप्रसिद्धोपमत्वं रसानुप्रवेशेन गुणी भवति / उद्गर्भत्वेन स्तनाग्रश्यामिका तया लाञ्छनानुकरणमभिलषितम् // निरलंकारमित्याहुरलंकारोज्झितं वचः। अजित्येपु तस्यापि कचिन्निर्दोषता मता // 151 // यथा-- 'याच्यां देवपराभवप्रणयिनी नेक्ष्वाकवः शिक्षिताः .. __सेवासंबलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः / - सर्वं तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः / ___ पाणिः संप्रति मे हाकिमपरं स्प्रष्टुं धनुर्वाञ्छति // 194 // ' अत्र निरलंकारत्वेऽपि अर्थोर्जित्याद्गुणत्वम् / / निरलंकारमिति / दैन्यपराभवप्रणयिनीमित्याद्युत्कृष्टपुष्टिविशेषणयोगादस्तिशब्देऽस्पष्टे वक्रतार्थे तु नास्ति वक्रत्वं चालंकार इति / यद्यपि वाक्यार्थो निरलंकार