________________ 134 काव्यमाला।. . . - अप्रस्तुतेति / अप्राधान्य इत्युपलक्षणं बाध्यत्वेऽपीति च बोद्धव्यम् / रसवस्तुनोः परस्परविरोधिरसव्यञ्जकयोः। यद्वा मिथोविरोधिरसरूपयोरेव वस्तुनः। तदाह-'बाध्यानामङ्गभावं वा प्राप्तानामविमुक्तता' इति // हीनं यत्रोपमानं स्यादुपमेयं गुणाधिकम् / हीनोपमं तदस्याहुः कवयः काप्यदुष्टताम् // 147 // यथा'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना / नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता // 190 // ' अत्रोपमानस्य हीनतायामपि रागातिशयहेतुत्वाद्गुणत्वम् / / हीनमिति / जातिप्रमाणाभ्यामपकृष्टं हीनं चन्द्रापेक्षया कामिनीकपोलस्यापकर्षे आत्मनस्तुल्यतामुद्दीपनस्य प्रतिपाद्यमानः प्रकृतशृङ्गारप्रकर्षमर्पयिष्यतीति गुणत्वम् / एवमधिकोपमेऽपि // यत्रोपमानमुत्कृष्टमुपमेयं निकृष्यते / ज्ञेयं तदधिकौपम्यमस्यापि काप्यदोषता // 148 // यथा'कान्त्या चन्द्रमसं धाम्ना सूर्य धैर्येण चार्णवम् / राजन्ननुकरोषि त्वं सौभाग्येनापि मन्मथम् // 191 // / अस्याधिकौपम्येऽपि राज्ञो लोकपालांशत्वेन शिष्टैराहतत्वाद्गुणत्वम् // ' उपमानस्य वैषम्याद्भवेदसदृशोपमम् / / तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु // 149 // यथाप्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा / / न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव // 192 // 1. 'मुक्तिवत्सला' इति पाठः. 2. 'नेन' इति सटीकपुस्तकपाठः, ... : कमा