________________ 1 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 133 लोकांतीत इति / 'अनामये प्रियालापे वार्त वार्ता च कीर्त्यते / वर्णनाखपि' इत्यादिपदविवरणं दृश्यते / कान्तमित्यभिसंबन्धः / लौकिकार्थानुयायि. यज्जगति लोके कान्तमुच्यते तथाभूतमतिक्रम्य यत्कवीनां प्रस्थानं प्रवर्तते तदपि गौडानां मनसो मुदे प्रोक्तम् / शब्दाडम्बरात्मकगौडरीतिप्रियाणां विदग्धकामाज्ञापकं सद्गुणी भवतीति श्लोकार्थः / धिष्ण्यं गृहम् / ननु प्रियालापवर्णनयोरेवंविधा एव लोके काव्ये च वचनसंदर्भा इति नास्त्यतिमात्रतानतिमात्रतयोर्मेद इति पृच्छतिअथेति / सुगममन्यत् // परुषं निष्ठुरार्थ तु यदतीव विगर्हितम् / विरुद्धलक्षणाद्यासु तदुक्तिषु न दुष्यति // 145 // यथा 'हालाहलं विषं भुङ्क्षव सखि मा तत्र विश्वसीः / . यद्वा न दसे काष्ठैः खल्पैस्त्वमिति मे मतिः / / 188 // ' अत्र पारुष्येऽपि विरुद्धलक्षणयार्थान्तरस्य लक्षितत्वाद्गुणत्वम् // . - परुषमिति / विरुद्धलक्षणा. लौकिकी तस्या हि झटित्यभिधानाविनाभावादपरुषार्थप्रतीतेरभिधानतः पारुष्यं न दोषो लक्षणापरिग्रहेण च गुणत्वम् / तदाहुः'अभिधेयाविनाभावप्रतीतिर्लक्षणेति या / सैषा काव्ये दग्धवक्रा जीवितं वृत्ति. रिष्यते // ' इति / अप्रस्तुतरसं पाहुर्विरसं वस्तु सूरयः। / अप्राधान्ये तदेष्टव्यं शिष्टैः स्याद्रसवस्तुनोः // 146 // / यथा'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण / 'आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः . / कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः // 14 // .अत्र करुणे शृङ्गारस्याप्रकृतत्वेऽपि शंभुप्रभाववर्णनाङ्गभूर्तत्वेन द्वयो. रप्यप्राधान्यादवैरस्येन गुणत्वम् // 1. 'स्तुतत्वे' इति सटीकपुस्तकपाठः.