________________ . काव्यमाला। बिभतीति सामान्यालंकारे कथमन्यधर्ममन्यो वहतीति प्रतिसंधानसमसमयं वक्रक्लैब्यमस्येत्यन्तर्गतोपमाप्रकटीभावे उपमासमासपदयोरपि सा प्रतीयते इति सेयं कविचातुरीप्रतीयमानच्छायामेव पुष्णाति / तदिदमुक्तम्-प्रत्युतेति // ' लोकातीत इवार्थे यः सोऽतिमात्र इहेष्यते / वार्तादौ तेन तुष्यन्ति विदग्धा नेतरे जनाः // 142 // तच वार्ताभिधानेषु वर्णनास्वपि विद्यते / कान्तं जगति तत्कान्तं लौकिकार्थानुयायि यत्॥१४३।। लौकिकार्थमतिक्रम्य प्रस्थानं यत्प्रवर्तते / तदत्युक्तिरिति प्रोक्तं गौडानां मनसो मुदे // 144 // यथा'देव धिष्ण्यमिवाराध्यमद्य प्रभृति नो गृहम् / ... युष्मत्पादरजःपातधौतनिःशेषकल्मषम् // 184 // अत्रातिमात्राख्ये दोषेऽपि वार्ताभिधानेऽभिधेयस्य कान्तिगुणस्याभ्यनुज्ञानाद्गुणत्वम् / यथा वा 'अल्पं निर्मितमाकाशमनालोच्यैव वेधसा / ___ इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् // 185 // अत्रातिमात्रत्वेऽपि वर्णनार्थत्वाद्गुणत्वम् / अथानतिमात्रं कीहक् / उच्यते-... ...... .. . वार्ते तावद्यथा-- 'गृहाणि नाम तान्येव तपोराशिर्भवादृशः। ..... संभावयन्ति यान्येवं पावनैः पादपांसुभिः // 186 // ' अथ वर्णनायां यथा. 'अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः। . ... अवकाशो न पर्याप्तस्तव बाहुलतान्तरे // 187 // '