________________ ' 1 परिच्छेदः 1] सरखतीकण्ठाभरणम् / . अत्र पौर्वापर्यविपर्ययादपक्रमदोषस्य चन्द्रोदयं प्रति रागोद्दीपनप्रक प्रकाशनत्वाददोषः // __वाक्य इति / अर्थानां कार्यकारणभूतानां तेषामेव पौर्वापर्यनियमाद्य इति पूर्वार्धेऽध्याहार्यम् / चित्रहेताविति प्रसिद्धरूपविपर्यासेन हेतुवचनद्वारा प्रकृतवाक्यार्थपरिपोषाधानं चित्रहेतुः / पर्यस्य विस्तार्य चन्द्रोदयरागोद्दीपनयोः सत्यपि हेतुहेतुमद्भावेन पौर्वापर्ये प्रथमं रागसागरः पश्चाच्चन्द्रमण्डलमुदीर्णमिति विपर्यासप्रतीतिसमसमयमुद्दीपनविभावनानुसंधानाद् हिमांशोरतिशीघ्रकारिताप्रकाशनात् प्रकृतशृङ्गाररसो दीप्यते / एवं कुलकादिरूपं प्रबन्धान्तर्गतवाक्येष्वपि गुणत्वमवसेयम् // - यस्मिन्रीतेरनिर्वाहः खिनं तदभिधीयते / न दोषस्तस्य तु कापि यत्र च्छाया न हीयते॥१४१॥ यथा'अभिनववधूरोषखादुः करीषतनूनपा दसरलजनाश्लेषक्रूरस्तुपारसमीरणः / गलितविभवस्याज्ञेवाद्य धुतिर्मसृणा रवे विरहिवनितावनक्लैब्यं बिभर्ति निशाकरः // 183 // ' ___ अत्रोपमानानि सामांन्यवचनैः समस्यन्त इति प्रक्रान्तरीतेरनिर्वाहेऽपि समासव्याख्यापरत्वेनैव इवशब्बतद्धितयोः प्रयोगे प्रत्युत च्छायोत्कर्ष इति गुणत्वम् // .. यस्मिन्निति / वाक्यार्थस्य धर्मिणो यदलंकारभङ्ग्या प्रक्रमस्थया निर्वहणाभावः खेदः / स तु पूर्वालंकारविश्रान्तौ प्रतीतेरस्खलने न दोषः / गुणत्वं च तस्य भयन्तरैरपि प्रकृतालंकारे ध्वननात् / तथा हि-'अभिनववधूरोषवादु असरलजनाश्लेष इव क्रूरः' इत्युपमानानि सामान्यवचनैः समस्यन्त इति समासद्वयेनोपमामुपक्रम्य मलिनविभवस्याज्ञेवेति समासत्यागाद्विरहिवनितावऋक्लैब्यं बिभर्तीति चान्तरधर्मारोपेण चोपमात्यागात्सत्यपि रीतेरनिर्वाहे उपमायामेव पर्यवसानं समाधानहेतुः / गुणत्वहेतुमाह-व्याख्यापरत्वेनेति / गलितविभावाज्ञामसृणेति समासे कर्तव्ये योऽयमिवशब्दप्रयोगः स इवार्थे पूर्वी समासौ बोधयति / क्लैब्यं