________________ काव्यमाला / संशयायैव संदिग्धं यदि जातु प्रयुज्यते / स्थादलंकार एवासौ न दोषस्तत्र तद्यथा // 139 // 'कुत्तो लम्भइ पन्थिअ सत्थरअं एत्थ गामणिघरम्मि / उण्णअपओहरे पेक्खिऊण जइ वससि ता वससु // 181 // .[कुतो लभ्यते पथिक स्रस्तरकमत्र ग्रामणीगृहे। उन्नतपयोधरान्प्रेक्ष्य यदि वससि तदा वस // ] ___ अत्र केनापि पथिकयूना प्रावृडारम्भे ग्रामणीवधूः पीनोन्नतस्तनी सत्थरअमिति स्रस्तरकव्याजेन शस्तरतं याचिता / तं प्रत्याचक्षाणेव यथोक्तं ब्रूते-'कुतोऽत्र ग्रामणीगृहे स्रस्तरकः, कुतो वा शस्तं रतम् / उन्नतौ पयोधरौ मम हृदये नभसि वा पयोधरान्दृष्ट्वा यदि वससि तदा वस' इति तदेतस्य गोपनाय यथैरेव पदैः प्रयुक्तमिति संदिग्धस्याप्यस्य गुणत्वम् // संशयायैवेति / मिश्रो विरुद्धार्थवाक्यं संशयापादनेन दुष्यतीत्युक्तम् / यदा तु संदेह एव तात्पर्यमवधार्यते तदा स एव रजकतयालंकारतामारोह तीति कत्थनं गुणीभाव इति, तदिदमुक्तम्-स्यादलंकार एवेति / कुतो लभ्यते पथिक स्रस्तरः शस्तरतं चात्र ग्रामणीगृहे / ग्रामणीामप्रधानम् / उन्नतपयोधरान्मेघान् पयोधरौ स्तनौ वा दृष्ट्वा यदि वससि तद्वस / अत्र प्रष्टुः संदेहजनकत्वेन निभृतानुरागप्रकाशनं पथिकविषये प्रतीयते // यथैरिति / तदुक्तम्-'यथैः पदैः पिशुनयेच रहस्यवस्तु' इति // वाक्ये प्रबन्धे चार्थानां पौर्वापर्यविपर्ययः। दोषः सोपक्रमो नाम चित्रहेतौ च दुष्यति // 14 // - . यथा 'पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम् / प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः / / 182 // 1. 'नानाथैरेव' ग. 2. 'कथं न' स्यात. -