________________ " 1 परिच्छेदः / सरखतीकण्ठाभरणम् / 126 एवं गतार्थमपि यथा. : 'हत्कण्ठवक्रश्रोत्रेषु कस्य नावस्थितं तव। ... श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः // 179 // . "अत्रैकेनैवोपमानेन शौकल्यप्रतीतौ शेषोपमानपादानां व्यर्थत्वेऽपि यशसः स्मर्यमाणत्वगीयमानत्वस्तूयमानत्वश्रूयमाणत्वैर्वृदयादिषु श्रीखण्डादिवदनस्थानस्य प्रतीयमानत्वाद्गुणत्वम् // ..... 5, एवं गतार्थमपीति / श्रीखण्डेनैवोपमाने यशसः शुद्धत्वमवगतं श्लेषोपमानपदानि केवलकृतकराणीति व्यर्थत्वप्रसङ्गे स्मरणादिविशेषविवक्षया तिरस्क्रियते, यथासंख्यादिभङ्गिसौभाग्येन च गुणीभाव इति // .. अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते / तदेकार्थ रसाक्षिप्तचेतसां तन्न दुष्यति // 138 / यथा'असारं संसारं परिमुषितरत्नं त्रिभुवनं. : निरालोकं लोकं मरणशरणं बान्धवजनम् / * अदपं कन्दर्प जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः // 180 // " 'असारं संसारम्' इत्युक्त्वा 'परिमुषितरत्नं त्रिभुवनं निरालोकं लोकम्' 'जगज्जीारण्यम्' इति यदुक्तम्, तस्य विशेषानभिधायकत्वेऽपि रसाक्षिप्तेन वक्राभिहितत्वाद्गुणत्वम् // . . . . . . . . अविशेषेणेति / पूर्वोक्तपूर्वोक्ताभिन्नतात्पर्यक्रमविशेषेण तात्पर्यावृत्तिप्रयोजनमन्तरेण तन्मयीभवनं चेतस आक्षेपः / 'असारं संसारम्' इत्यनेन. स्थावरजङ्गमप्रपञ्चस्य निःसारतां प्रतिपाद्य 'जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते' इति / 'परिमुषितरत्नम्' इत्यत्रापि तावानेव तात्पर्यार्थः। एवं "निरालोकं लोक', 'जगज्जीारण्यम्' इत्यत्रापि द्रष्टव्यम् / सुगममन्यत् // . . . . . . . . . - 1. 'शुभ्रत्व' ग. ९स० क..