________________ 128 काव्यमाला / नायकस्य वासनापरिपाकवशाद्विप्रलम्भावेशेऽपि प्रथमं प्रादुर्भावः--'क्वाकृत्यं शश. लक्ष्मणः क्व नु कुलम्' इति / तदेवं शान्तरसानुयायिनमनन्तरमेव बाधित्वा चित्तानुरञ्जकप्रकृतरसाव्यभिचारिणा औत्सुक्यस्य प्रादुर्भावः-'भूयोऽपि दृश्येत सा' इति। एवं 'दोषाणामुपशान्तये श्रुतम्' इत्याद्यौचित्यादीनां पूर्वपूर्वप्रादुर्भूतानामुत्तरोत्तरभाविभिश्चिन्ताप्रभृतिभिरपवादे प्रकृतवासना प्रौढिरवसेया / उन्मत्तवचनत्वादिति / रसाविष्टचेतसस्तदुत्कलिकाप्रायाणां भावानामव्यवस्थया कीर्तनमुन्मादः // यदप्रयोजनं यच्च गतार्थ व्यर्थमेव यत् / तस्यापि क्वापि निर्दोषः प्रयोगो दृश्यते यथा // 137 // - यथा 'गीता विदुरवाक्यानि धर्माः शान्तनवेरिताः। न श्रुता भारते येन तस्य जन्म निरर्थकम् // 178 // ' .. अत्र गीताविदुरखाक्यादीनां कथायामप्रयोजकत्वेऽपीतिहासव्याजेन चतुर्वर्गप्रतिपादनस्यारम्भ एव प्रतिज्ञानाद्गुणत्वम् / तदिदमप्रयोजनम् // यदप्रयोजनमिति / प्रबन्धार्थपोषानाधायकवाक्यमप्रयोजनम् / अर्थलाभप्रतिपादकतया कृतकरं व्यर्थम् / एवकारो भिन्नक्रमस्तच्छब्दानन्तरं द्रष्टव्यः। दृश्यत इत्यनेन तत्र तत्र प्रकृतसंगतौ सत्यां दोषाभावोऽवसेय इति दर्शितम् / यद्यपि भगवद्गीतायां मोक्षाधिकारिणामस्त्येव प्रकृतशान्तरसपरिपोषकत्वम् , तथापि तदन्तर्गतानां भूयसामाहत्य नास्ति / भीष्मविदुरवाक्यानां तु धर्माधिकारे प्रकृतानां व्यक्त एव निष्प्रयोजनप्रस्तावः। सोऽयं यथा समाधीयते तद्विवृणोति-अत्रेति। इतिहासरूपे प्रबन्धे सत्यपि शान्तस्य वाक्यार्थाभावेन बहूनामितिहासानां त्रिवर्गाधिकारित्वाच्चतुर्वर्गप्रतिपादनमेव महर्षेरभिमतम् , धर्मादित्रितयस्य च प्रासङ्गिकतया न पूर्ववदस्याईंकताविरोधः / तदिदमुक्तम्-व्याजेनेति / एवं च व्युत्पाद, यितव्यविषयजिज्ञासोपादाने धर्मार्थप्रवृत्तये वाक्यमिदं सफलतामासादयद्गुण . एव भवति // 1. 'प्रयोजकं' ग. 2. 'पोषो नाधायक' पाठः. ३..'स्तावः' पाठः..,