________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / अनलंकारमित्याहुरलंकारोज्झितं वचः। पूर्वोत्तरानुसंधाने तस्य साधुत्वमिष्यते // 134 // यथा'निशम्य ताः शेषगवीरभिधातुमधोक्षजः / शिष्याय बृहतां पत्युः प्रस्तावमदिशदृशा // 176 // अस्यानलंकारत्वेऽपि पूर्वापरानुसंधानप्रयोजनभूतत्वाद्गुणत्वम् / / अनलंकारमिति / अनुत्कृष्टाप्रविष्टविशेषणवद्वाक्यं निरलंकारः पूर्वोत्तरवाक्यसंगतिकरणप्रयोजनकतया न दोषः / कथं तथाभूतस्य काव्यत्वमित्यपि न वाच्यम् / अनुगतेन वक्रीभावेन तत्समर्थनात् / व्यक्तमुदाहरणम् // सूत्रकार एव वाक्यार्थदोषगुणीभावविवेचनं संगमयति- . वाक्याश्रयाणां दोषाणां गुणीभावोऽयमीरितः। अथ वाक्यार्थदोषाणामदोषः कथ्यतेऽधुना // 135 // समुदायार्थशून्यं यत्तदपार्थ प्रचक्षते / तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति // 136 // यथा'काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा..... ___ दोषाणामुपशान्तये श्रुतमहो कोपेऽपि कान्तं मुखम् / किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैव सान्याशी चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं धास्यति // 177 // - अत्र समुदायार्थशून्यत्वेनापार्थस्याप्युन्मत्तवचनत्वाद्गुणत्वम् / / - वाक्याश्रयाणामिति / सत्तादिवचनान्यनुक्रियमाणानि चमत्कारमर्पयन्ति / अत एव छायालंकारप्रादुर्भावाद्गुणः / अनित्यदोषतया चानुकरणादन्यदपि गुणीभवनबीजमुन्नेयमित्युदाहरणेन व्यञ्जयनाह-वाकृत्यमिति / अत्र श्रुतिशालिनो - 1. निरलंकार' ग. 2. 'कृत्यं' ग. 3. धियः स्वप्नेऽपि सा दुर्लभा' ग. 4. 'मत्तादिववनान्य' पाठः..