________________ 126 काव्यमाला। यथा'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा / यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् // 174 // ' अत्रासमस्तत्वेऽपि प्रौढबन्धत्वाद्गुणत्वम् / . ओज इति / दीप्तरसानुप्रविष्टार्थप्रतिपादकसंदौचित्येन समासभूयस्त्वमोजः। अस्य विपर्ययो दीप्तेरप्रत्यूहादेव समाधीयते / तदिदमुक्तम्-'दीप्तार्थ बध्यते यत्र तद्दीप्तं चेन दुष्यति' इति / सुगममुदाहरणम् / व्यूढः प्रौढः // समस्तमसमस्तं वा न निर्वहति ग्रद्वचः / तदनियूंढमस्यापि न दोषः कापि.तद्यथा // 133 // यथा 'प्रसीद चण्डि त्यज मन्युमञ्जसा __ जनस्तवायं पुरतः कृताञ्जलिः / किमर्थमुत्कम्पितपीवरस्तन द्वयं त्वया लुप्तविलासमास्यते // 175 // अत्रासमस्तरीत्यनिर्वाहादनियूंढत्वेऽपि रसान्तरपरिग्रहेण रीत्यन्तर- ' परिग्रहाद्गुणत्वम् / / ___ समस्तमिति / उपकान्तरीतेरनिर्वाहे मधुररसपर्यन्ता प्रतीतिः स्खलतीति दूषणताबीजमुक्तम् / तथाभूतरसानुगुणव्यभिचार्यनुप्रवेशव्यञ्जनौचित्यादुपक्रमनिहिः सर्वखायमानो गुणतामासादयति / तथा हि-प्रसीदेत्यादौ प्रणयकेलिकुपितकामिनीप्रसादनायां शृङ्गारविरोधिसमासव्यतिकरेण रीतेरप्यपक्रमे रोषलक्षणभावानुभावभूः स्तनकम्पवर्णनायां समासोऽनुप्रविष्ट इति व्यक्तः पूर्वरीतेरनिर्वाहः / रसान्तरं प्रकृतविजातीयरससंबद्धो व्यभिचारी भावः // 1. 'न्यूट' इति टीकासंमतः पाठः. 2. 'अत्र समस्तरीत्या' क-ख.. 3. 'मधुरसपर्यन्ता' इति स्यात. 4. 'भूतस्तन' स्यात्.