________________ 125 '1 परिच्छेदः / सरखतीकण्ठाभरणम् / नुभवनीयं दुःखं छिनत्ति / श्रियापि स्तुतेति / अष्टदलकमलबन्धोऽयम् / तदिह तथा वरा(?)संनिवेशस्य चमत्कारकारित्वेन प्रसादोऽपि सहृदयश्लाघाविषयो गुणतामध्यास्त इति // अध्याहारादिगम्यार्थ नेयार्थ प्रागुदाहृतम् / ... स गम्यते प्रसिद्धश्वेन तद्दोषवदिष्यते // 130 // - यश'मां भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा / वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष // 172 // ' __ अत्र दहत्वित्यादीनामध्याहार्यतया नेयत्वेऽप्यतिप्रसिद्ध्या प्रतीयमानत्वाद्गुणत्वम् // __ अध्याहारेति। असंपूर्ण वाक्यं नेयार्थमित्युक्तं तस्यैवंरूपता झटिति श्रुतार्थापत्तिप्रादुर्भावपरिह्नवकसंधानात्समाधीयते / तथा हि-'मा भवन्तमनलः' इत्यादौ वृक्षसमभिव्याहारेण दहनादीनां योग्यतया शीघ्रमेव धाक्षीदित्यादिक्रियान्वयोऽवसीयते। खस्तिवचनेन चामङ्गलप्रस्तावनिरासात्तथाभूतक्रियानुपादानं वऋक्षमतया गुण इति // असभ्यार्थं मतं ग्राम्यं तद्राम्योक्त्यैव दुष्यति / विदग्धोक्तौ तु तस्याहुगुणवत्त्वं मनीषिणः // 131 // यथा कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः / त्वयि निर्मत्सरो दिष्टया सोऽयमस्मास्वनुग्रहः // 173 // ' अत्र ग्राम्यत्वेऽपि ग्राम्यार्थस्य विदग्धोत्तया तिरस्कृतत्वाद्गुणत्वम् // ' असभ्यार्थमिति / रसस्यादीप्तिः कान्तिविपर्ययो वचनापराधेन दूषणतामध्यास्ते, स समाधीयतेऽत्र ग्राम्योक्तिपरिहारेणैव / अत एवोक्तिसमर्पितच्छायाविशेषयोगे गुणत्वलाभः / सहृदयसभायां न साधुरसभ्यः / वैदग्ध्यविधुरं ग्राम्यम् // ओजः समासभूयस्त्वं तद्दीप्तार्थेषु वध्यते / -- विपर्ययोऽस्याः समस्तं तद्दीप्तं चेन्न दोषभाक् // 132 // . 1. 'निर्भर्त्सनो' . 2. 'वचनापरार्धेन' इति पाठः...