________________ 1 परिच्छेदः।] सरस्वतीकण्ठामरणम् / 137 * तत्र देशविरुद्धस्य गुणीभावो यथा- . * तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे / आदाशुकप्रवालानामास्पदं सुरशाखिनाम् // 196 // . अत्र देशविरुद्धत्वेऽपि तस्य राज्ञः प्रभावेणेति कारणोपन्यासाद्गुणत्वम् // देशोऽद्रीति / आदिपदेन द्वीपादिपरिग्रहः / कामार्थसंश्रयाः, अर्थसंश्रयाः प्रवृत्तयोऽवस्थाविशेषाः / हेतुविद्या आन्वीक्षिकी / अयथारूढं अप्रसिद्धम् // कालविरुद्धस्य यथा- ...... 'राज्ञां विनाशपिशुनश्चचार खरमारुतः। चुम्बन्कदम्बकुसुमैः सह सप्तच्छदोद्मान् // 197 // अत्र कालविरुद्धत्वेऽपि राज्ञां विनाशपिशुन इत्यनिष्टसूचकोत्पात. रूपत्वा॑द्गुणत्वम् / / कालविरुद्धस्येति / उपघात उत्पातः // लोकविरुद्धस्य यथा 'ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् / ___अबलाविरहक्लेशविह्वलो गणयत्यलम् // 198 // ' अत्र लोकविरुद्धत्वेऽपि कामिभिस्तथा संवेद्यमानत्वाद्गुणत्वम् / / युक्तिविरुद्धस्य यथा-.. _'स संकोचश्चन्द्रादिव कुमुदराशेरशरणः . स सूर्यात्कोकानां विरह इव लुप्तप्रतिविधिः / ... गुणेभ्यस्ते खेदप्रशमनकरेभ्योऽपि यदयं .. ........ ..' खलानामुद्वेगस्तदिदममृतादेव मरणम् // 199 // अत्र युक्तिविरुद्धत्वेऽपि छेकोच्या संभाव्यमानोपमया तथाप्रतीतेर्गुणत्वम् / ( E