________________ 1 परिच्छेदः।। सरस्वतीकण्ठाभरणम् / तथापि तीव्रप्रयत्नोच्चारणीयशकारहकारादिसंयोगमहिम्ना नावच्छेदश्रव्यता. कलुषीक्रियत इति / एवमन्यदप्युदाहार्यम् / यथा- ..... ........ . . 'धवलाइं गलेत्ति धवलेहिं अणञ्जणसामलेहि णिसालआए। ...... : णखवत्तकुसुमाई णहअलाओ ओसरइ // '.. इत्यादि नामधातुभागे खरासंधाने च पठितिविच्छेदो न भवतीत्युक्तं स तदुलचनमात्रेण समाधीयते शोभा पुष्यतीति // वाक्यमस्थानविरति प्राग्भग्नयतिसंज्ञया / समुद्दिष्टं यदधुना गुणत्वं तस्य कल्प्यते // 124 // यथा'शोभां पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः किंचिद्भावालसमसरलप्रेक्षितं कामिनीनाम् / कार्याकार्याण्ययमविकलान्यागमेनैव पश्य न्वश्यामुर्वी वहति नृप इत्यस्ति चायं प्रयोगः // 167. // ' अत्र पादत्रये चतुर्थस्थाने यतौ कर्तव्यायां पञ्चमस्थांने कृतत्वादपरत्र च पादस्य मध्यभागे निविष्टकेवलखरत्वाद् यतिभ्रंशेऽपि खरसंधिकृतत्वादविभिन्ननामधातुशरीरत्वाच न दोषत्वम् // यदाह 'खरसंध्यकृते प्रायो धातुभेदे तदिष्यते / ... नामभेदे च शेषेषु न दोष इति सूरयः / / ... लुप्ते पदान्ते शेषस्य पदत्वं निश्चितं यथा / तथा संधिविकारान्तं पदमेवेति वर्ण्यते / / ' . वाक्यमिति / ......... शोभामिति / ............ 1. 'मुलङ्घय' स्यात्. 2. 'विकलेनागमेनैव' क...