________________ 120 - "काव्यमाला / विशेषस्त्विति / उपमेयांशे विशेषविशेषणमुपादाना(?)दुपमानविशेषणास्प्रतीयते। शतदा विद्युत् / उपमानत्वेनाविवक्षितत्वादित्यापाततः। उपमानविशेषणानां यावत्प्रतीति न ग्रहणमिति प्रकाशयितुं पारमार्थिकस्त्वयं सिद्धान्त इत्याह-यदि वेति / उपमानधर्मस्याधिकस्योद्घाटनमभिधानं तस्यानु पश्चान्मानं ज्ञानम् / कथमेतदित्याह-इति प्रसिद्धेरिति // यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् / न च्छन्दोमङ्ग इत्याहुस्तदा दोषाय सूरयः // 123 // यथा'जह ण्हाउं ओइण्णे अब्भन्तमुल्हासिअमंसुअद्धन्तम् / तह अ ण्हाआ सि तुमं सच्छे गोलाणईतूहे // 166 // ' यथा स्नातुमवतीर्णे आर्दीभूतमुल्लासितमंशुकार्धान्तम् / तथा च स्नाता भवसि त्वं स्वच्छे गोदानदीतीर्थे // ] - अत्र द्वितीयैकादशत्रयोविंशतिवर्णानां संयोगपरत्वाद्गुरुत्वेऽपि ण्हाल्हादिसंयोगस्य तीव्रप्रयत्नोच्चारणेन पूर्वलघुत्वे न छन्दोभङ्ग इति गुणत्वम् // यदेति / प्रयतनं प्रयत्नः स्थानकरणव्यापारस्तस्य तीव्रत्वमुद्रेकस्तत एव हि पिण्डाक्षरादीनामकठोरत्वमाभासते / आदिग्रहणादिवहिकारौ सानुखारौ च केवलौ पदान्ते वर्तमानौ तत्तद्भाषाविषयेऽवसेयौ / क्वचिदेव हि वर्णे तथावभासते न तु सर्वत्र / तदुपलक्षणमेव 'रह वंजणसंजोए' [ 'रही व्यञ्जनसंयोगे' ] इत्यादिकं छन्दोविचितौ दर्शितम् / जहेति / स्नातुमवतीर्णे त्वयि अंशुकार्धमुद्दष्टं सदब्भन्तमार्दीभूतं यथा चलत्वं स्थितेस्तथावगम्यते न त्वन्तजलं जलकेलिस्थानमवतीर्ण इत्यभिप्रायशेषः / कथमन्यथा गोदावरीनद्याः स्वच्छं जलं दृश्यते इति / सूहं तीर्थम् / अत्र द्वितीयैकादशादेिस्थानेषु यद्यपि संयोगात्पूर्वभावे गुरुत्वं विद्यते 1 इति मूले पाठः. 2. 'विशेषादिति' इत्यादर्शपाठः. 3. 'भङ्गमप्याहुए क. ॐ. 'पुनर्लधु' ग. 5. 'इहिकारा विन्दुजुआ' इति प्राकृतपिङ्गलोक्त्या 'इकारहिकारौ' इति; 'इहिकारौ' इति वा पाठः. 6. 'लब्धम्' स्यात्.