________________ 1 परिच्छेदः। सरखतीकण्ठाभरणम् / 119 यदाह 'सर्व सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् / यथोपपत्ति कृतिभिरुपमानं प्रयुज्यते // अखण्डमण्डलः क्वेन्दुः क कान्ताननमद्युति / यत्किंचित्कान्तिसाम्यात्तु शशिनवोपमीयते // यत्रोपमानेति / उपमेयेनोपमेयविशेषणेन संमितास्तुल्यसंख्याः / इन्द्रायुधमिन्द्रधनुरेकमुपमाने उपमेये पीतं वासः शाङ्गमब्जः शङ्ख इति त्रीणि विशेषणानि तदिहाधिकविशेषणविषय इति जिज्ञासासमकालमेवाप्रसिद्धेन्दुबिम्बयोरुपमानयोर्मेघानुसंधानात् स्खलनाभिमुखी प्रतीतिरवलक्ष्यते / ध्वननव्यापारोन्मेषाच्च गुणत्वलाभः। तदुक्तम्-'मुख्या महाकविगिरामलंकृतिभृतामपि / प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् // ' इति / न चैवं स्तनितादीनामिति कथं प्रतीतिरिति वाच्यम् / प्रतीयमानस्यापि प्रतिपत्तिवैरूप्यसमाधावानौपयिकस्थानाकाङ्कितत्वेनादरादित्याह-सर्व सर्वेणेति / यथोपपत्तिपर्यन्तो यावतोपमानविशेषणत्वेन प्रकृतमुपमेयविशेषणप्रतिबिम्बता नीयते तदतिक्रमेणैकप्रतीत्यनुरोधे कल्पितेनाप्युपमेयविशेषणेनेत्यर्थः / अन्यथा चन्द्रमुखादीनां नोपमा पर्यवस्थतेत्याह-अखण्डेति // "अमुमेव प्रकारमधिकोपमेये योजयन्नाह क्रमेणानेन कृतिभिरेष्टव्यमधिकोपमम् / विशेषस्तूपमेयाङ्गमनुमानात्प्रतीयते // 122 // यथा'स पीतवासाः प्रगृहीतशाओं मनोज्ञभीमं वपुराप कृष्णः / शतहदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः // 165 // ' अत्र शशिनो ग्रहणादधिकोपमत्वेऽप्युपमानत्वेनाविवक्षितत्वाद्गुणत्वम् / यदि वोपमाने धर्मोद्धाटनानुमानात् 'शङ्खचक्रगदाधरो विष्णुः' इति प्रसिद्धेः शाहूमनुमेयम् // 'क्रमेणेति / यत्रोपमानेऽधिकविशेषणसंक्षेपस्तद्वाक्यमधिकोपममित्युच्यते तत्र झटिति प्रतिबिम्बभूतोपमेयविशेषणप्रतिसंधानेन दोषः / तदेव तु कथमत उक्तम्