________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / सोपमो' इति प्रबन्धेनाग्रतो वक्ष्यामः / उपलक्षणं चैतत्-यदुपमायामेव लिङ्गवचनभेदो न दूषणमिति / तस्य सर्वालंकारसाधारणत्वात्केवलं सादृश्यमलंकार इति दर्शने उपमायामुदाह्रियते // - प्राज्येति / आर्हतानां नेमिनामा जिनविशेषोऽन्ये जिना ऋषभनाथप्रभृतयः प्राज्यमुचितं तथाभूतः प्रभावः सिद्धिरूपो यस्य तादृशो नेमिः शिवं ददतां ददातु। 'दद दाने' इति धात्वनुसारात् / कस्मै इत्यपेक्षायां मुक्तात्मा इत्यत्र नः / पक्षे वो युष्मभ्यं शिवं ददतां ददत्विति / धर्मस्य प्रभवमुत्पत्तिनिमित्तं नेमिः / प्रभवः प्रभुता यथावदनुशासनेन जिनाः / रजश्च तमश्च रजस्तमसी ते अस्ते क्षिप्ते येन स तथाभूतो नेमिः / अस्त रजो यैस्तेऽस्तरजसस्तेषु प्रकृष्टास्तमप्यरजस्तमाः / मुक्तो निरावरण आत्मा आत्मशब्द आत्मवचनः खरूपवचन इति वा बहुव्रीहिस्तादृशो नेमिः / जिनास्तु मुक्तात्मान इति स्पष्टम् / तदिह वचनभेदमन्तरेण वचनश्लेषाभावाद्भिन्नवचनत्वस्यावश्यकत्वेन दोषः / श्लेषलक्षणालंकारघटनया गुणत्वम् / ननु च लिङ्गादिभेद उपमाया दूषणत्वमुक्तम् , इह त्वलंकारान्तर उदाहियते, तत्कथं पूर्वापरसमञ्जसत्वम् / न चात्रोपमा संभवति, तत्सामग्र्यसंभवात् / उपमानोपमेयसाधारणधर्मेवादिशब्दाः किल तद्घटकाः / तदत्र त्रितयसंबंद्धे त्वपीववद्वाप्रभृतिशब्दानुपादानात्कथमुपमेति शङ्कामुत्थाप्य निरस्यति-न चेति / इवादयो हि शब्दाः सादृश्यद्योतकाः / तथा च क्वचित्प्रसिद्धस्य प्रकृते संबन्धप्रतीतिस्तेभ्यो भवति बिम्बप्रतिबिम्बन्यायाश्रयणात् / एवं च न युगपत्तुल्यरूपसंबन्धः / अपिशब्दस्तु युगपत्तुल्यरूपसंबन्धं बोधयतीति विभिन्नविषयत्वम् / नहींवादिशब्दाभावे सादृश्यमेव न प्रतीयते, लुप्ोपमाप्रपञ्चभङ्गप्रसङ्गात् / अन्यत एव प्रतीतिसिद्धरुपायान्तरवैयर्थ्यात् / किमितीह नेवादिपदं प्रयुक्तमिति प्रश्नोऽवशिध्यते तत्रेदमुत्तरम्-इवस्येत्यादि / नेमिरन्येऽपीत्यपिशब्देन समुच्चयोऽप्यवसीयते / स च युगपदेकसंबन्धाभिधाने निर्वहति / तेनानेकमुद्दिश्य किंचिदेकसंबन्धाभिधानं समुच्चयाभिधायिनो विषयः / एकमुद्दिश्य प्रसिद्धान्यधर्मविधानं तु यथेवादिरिति विषयविरोधान्न प्रयुज्यत इति / स्यादेतत्-इववद्वायथादिशब्दा . 1. सादृश्यमात्र' ग. 2. 'नोऽस्मभ्यं' इति स्यात् ; यद्वा 'नोऽस्मभ्यम्' पक्षे 'वो युष्मभ्यम्' इत्येव पाठे 'प्राज्यप्रमाः' इति प्रथमान्तमपि पृथक् कल्पनीयम्. 3. 'प्रभव उत्पत्ति-' इति स्यात्. 4. 'बद्धेऽपीव' इति स्यात्. 5. 'धर्माभिधानं तु यथेवादे' इति स्यात.