________________ काव्यमाला / - यद्भिन्नेति / दोषप्रकरणानुरोधेन समस्तव्यस्तोदाहरणं बोद्धव्यम् / सहृदयोद्वेजकत्वेन हि दोषता / यत्र तु कथंचित्तथाभावो न भवति, तत्र दोषत्वहानिरुचितैव / तथा हि स्त्रीपुंसयोरेव प्रकृतानुगुणोपमानोपमेयभावविवक्षायामावश्यकं लिङ्गवचनभेदयोरन्यतरदेकस्य पुंस उपमेयत्वेन दारशब्दस्य भिन्नवचनत्वनियमात्कलत्रपदं भिन्नवचनमेव / पर्यायाणामपि लिङ्गभेदो नियतः / न च पुंवचनं किंचित्समानखभावमस्ति येनायं प्रकारो निवर्तेत / न चैवंविधोपमामन्तरेण प्रस्तुतवाक्यार्थपोषः / एवमनन्यगतिका भिन्नलिङ्गता भिन्नवचनता वा साहित्यसमयविदामुद्वेग नोत्पादयति / अत एवालंकारोचितीसंपदा गुणत्वसिद्धिः। एवं शमलज्जयोः पराक्रमवैयात्ययोः परिभवसुरतयोश्च बोद्धव्यमित्याशयवान् व्याचष्टे—अत्रेति / 'रतं, रहः, शयनं, मोहनम्' इति सुरतवाचिनां सर्वेषामेव नपुंसकता न दुष्यतीति सहदयहृदयानुद्वेजकत्वादिति हेतुर्गुणत्वेत्वामिप्रायिकः। स च दर्शित एव / अथेति / धर्मार्थकामास्त्रिवर्गः / वह्निविध्मापनचर्मपुटो भस्त्रां सा यथा वातेन पूर्यते, वातं च मुञ्चति, न तु किंचित्पुरुषार्थमासादयति, तथा त्रिवर्गशून्येऽपि भस्त्रापर्यायस्य समानलिङ्गस्याभावेन सहृदयानामनुद्वेगालंकारसंपत्त्या गुणत्वमुपपन्नमित्याहअत्र प्राग्वदेवेति / अदोष इत्युपलक्षणम् , गुणश्च भवतीत्यपि बोद्धव्यम् // - भिन्नवचनस्यैव यथा 'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः। मुक्तात्मा नः शिवं नेमिरन्येऽपि ददतां जिनाः // 163 // अत्र 'नेमिरन्येऽपि' इति वचनभेददोषेऽपि 'ददताम्' इति क्रियापदादेवचनश्लेषमाहात्म्याद्गुणत्वम् / न चेदं वाच्यमत्रेवादिन विद्यत इति नोपमात्वम् / इवस्यापिना समुच्चयार्थेन तुल्यधर्माणां तु 'धर्मस्य प्रभवः' इत्यादिभिर्वचनश्लेषैर्विषयापहारात् / यथा अग्रतो द्योतकलोप उपमायाम्'कोमलापाटलौ तन्वि पल्लवश्वाधरश्च ते / ' नन्वेषोऽपि श्लेषः कस्मान्न भवति / उच्यते- 'यत्र द्वयोः सदृशयोरभिधानं स श्लेषः / यत्र सदृशात्सदृशप्रतिपत्तिस्तदुपमानम्, यत्र द्वयोः सादृश्यमभिधीयते प्रतीयते वा 1. 'न दोषः' इति मूलपुस्तके.