________________ 1 परिच्छेदः।) सरस्वतीकण्ठाभरणम् / प्रघट्टकेन सूत्रेण संनिपातितरपि हास्यकरुणभयानकैन तिरस्कारः, “खाङ्गमव्यवधायकम्' इति न्यायात्, तथेह वीरस्याद्भुतेनात एवाद्भुतादुद्वेलस्य प्रादुर्भूतपुत्रकाकुरलक्षणानुभावप्रदर्शनम्-'पश्यत' इति / न चात्र दोषोदाहरणे ‘मया' इति कारकविभक्तरुत्थिताकाहाया 'रक्षनम्' इत्यादिना खरसंबाधस्तथात्र संभवति, 'सिद्धा' इत्येतावत्यपि दर्शिते वाक्यार्थपर्यवसानात् / न च संपूर्णे रसे 'वदन्त एव' इत्यादिकमभिधातुमर्हति / अद्भुतता च पार्थिवानुभावस्य तन्मात्रपूरणापेक्षत्वात् / एवं रसानुभावनातृप्तस्य तत्रैव पुनः पुनरुत्कण्ठायां जिगीषुकरणीयलब्धपात्रप्रतिपत्तिविशेषस्फोरणे 'विप्राय प्रतिपाद्यते' इत्युक्तम् / दानवीरोऽपि वीर एव / अत एवाधिकस्य कर्तव्यस्याभावे किमपरमित्यादिरुपसंहारः / तदेतत्सर्व व्याचष्टे-अत्रेति // यद्भिनलिङ्गमित्युक्तं विभिन्नवचनं च यत् / उपमादृषणं तन्न यत्रोद्वेगो न धीमताम् // 120 // यथा 'अन्यदा भूषणं पुंसः शमो लज्जेव योषितः / पराक्रमः परिभवे वैयात्यं सुरतेष्विव // 161 // अत्र 'पुंसो योषित इव' 'शमो लज्जेव' 'पराक्रमो वैयात्यमिव' इति लिङ्गभेदः / 'परिभवे सुरतेप्विव' इति तु लिङ्गभेदो वचनभेदश्च दृश्यते। स चैषामेव परस्परमुपमानोपमेयभावविवक्षायां पर्यायान्तराभावादन्यथाकर्तुं न शक्यत इति सहृदयानुद्वेजकत्वान्न दुष्यतीति दोषस्यापि गुणत्वम् / तदिदं द्वयोरप्येकमुदाहरणम् / अथ भिन्नलिङ्गस्यैव यथा.... 'यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च / . स लोहकारभस्त्रेव श्वसन्नपि न जीवति // 162 // . अंत्र प्राग्वदेव पर्यायान्तराभावात् 'स लोहकारभस्त्रेव' इति लिङ्गमैदस्य न दोषः / /