________________ काव्यमाला। यथा'दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते ___ सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत / विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो ____ यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् // 160 // अत्र 'यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते' इति वक्तव्ये, येयं वीराद्भुतरसवशप्रवृत्तेन ‘वदन्त एव हि वयं रोमाञ्चिताः पश्यत' इति वाक्येन प्रकृतवाक्योक्तेरसमाप्तावेव 'विप्राय' इत्यादिपदविच्छित्तिः सा रसान्तरतिरस्कृतिरित्युच्यते / तया चेदं वाक्यान्तरसगर्भमपि वाक्यं न दोषाय भवति / / वाक्यान्तरेति / रसान्तरं रसविशेषः प्रकृतरसानुसंहितो रसस्तेन तिरस्कारो दोषभावस्य, तस्मिन् सति तथाकृतं वाक्यमिष्टमेव कवीनामुपादानयोग्यमेव अन्यथा नेष्टं दुष्टमेवेत्यर्थः / तेनायमर्थो भवति-प्रकृतरसतिरोधायकत्वं किल दूषणताबीजं तदतिरोधानेनैव निवर्तते / प्रत्युत द्वितीयपरिच्छेदे वक्ष्यमाणगर्भादिवाक्ययोजनप्रकारसंपत्तावलंकारलाभे गुणत्वं भवति / तथा हि-दिङ्मातङ्गानां घटया विभक्ताः पृथगुद्भिद्य व्यवस्थापिताश्चत्वार आघाटा यस्यां सा, तथा तेन 'सप्तद्वीपा वसुमती साध्यते' इति विवक्षितम् / ये तावद्भरतभगीरथप्रभृतयः प्रथितप्रतापातिशयास्तेषां तदूषणपरिनिष्ठितशक्तीनामेकस्यापि समस्तक्षत्रवंशोन्मूलनेन नवखण्डमेदिनीसिद्धौ नोत्साहशक्तिः श्रवणगोचरतामयासीदिति लोकोत्तरा परशुरामस्योत्साहशक्तिरावेद्यते। 'सिद्धा सा च' इत्यनेन यावदभिलषितं तावदेव सिद्धमित्यहो विजिगीषुतेति पूर्ववदेवाभिप्रायः / न चेदसौ सिद्धिमभिसंधाय प्रवृत्तः / अनुपदमेव सा संपति चकारेण द्योत्यते / एवमभिहिते ‘विप्राय' इत्यादिकमस्ति वाक्यशेषभूतम्, तद्विच्छिद्यैव मध्ये 'वदन्त एव हि वयं रोमाञ्चिताः' इति वाक्येन सगर्भता, सा न दोषाय / अनेन हि वाक्येन लोकोत्तरवस्तुभावनात्मकविभावसंपत्तौ प्रादुर्भवन् वक्तुमभिमतो रसो व्यज्यते। स च वीरानुसंधानहेतुर्वीराद्धतयोः समानभूमिकयोरन्योन्यानुगमनेन प्रतिकूलता विरहता। तत्र यथा शृङ्गाररौद्रबीभत्सानामेक 1. 'ऽभिप्राये' इत्यादर्श पाठ आसीत.