________________ * 1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / वसरः / कथं परमार्थवादिन्युत्तरं दातव्यमित्यनुपपत्तावयं समाधानप्रकारो भवति / अस्ति ग्राम्यस्य 'किल श्रूयते' इत्येताभ्यां संदिहानत्वं किंचिद्व्युत्पन्नत्वं चोन्नीतमिति किमप्यलीकमेव बुद्धिकौशलात्तथा प्रतीयमानमभिधाय प्रतारणमुपपद्यते / तन्मात्रपरत्वाच सर्वाकारमधिकाव्युत्पत्तिराहत्य दर्शयितुमर्हतीति तर्कितमित्यादिपदे यावती ग्राम्यस्य व्युत्पत्तिस्तावदनुकरणं कियदधिकव्युत्पत्तिपुरस्कारमर्हतीत्याशयवानुत्तरमवतारयति-अथेति / पादस्तर्कितमित्यादिग्राम्यप्रयुक्तस्तस्यानुरोधो व्युत्पत्त्यनुकरणम् / पच्छा पश्चात् / ऐ एषः। 'ऐ दूए' इति पाठे दूअं व्याजोऽनेन व्याजेन / भूतपतिः पशुपतिः। ननु न क्वचिदेवं श्रूयते तत्कथं ग्राम्यस्य प्रबोधो भवतीत्याह-गौरीविवाहोत्सव इति ।मा श्रूयतामुपपत्त्या तु सिद्धो द्वितीयो यदि कामप्रादुर्भावो न स्यात्कथं गौरीपाणिग्रहे भगवत उत्साह इत्यतस्तेनैव करुणासंतानशान्तात्मना भूयः सृष्टः स्यादित्यर्थः / पच्छेति प्रकृतिस्थम् , ऐ इति कठोरम्, किअलेउ इति कोमलम् , भूतपतिनेति तथा, गौरी विवाहोत्सव इति प्रकृतिस्थम् / 'ऍदूएँ' इति पाठे द्वयमपि कठोरम् / तदत्र कठोरनिवेशनं व्युत्पत्त्याधिक्यसूचनाय / एतावत्युक्ते परीक्षणव्युत्पत्तिर्न किंचिद्वाम्यं प्रतिभाति / न च तस्याद्यापि निःशङ्कता वर्तते / ततो नागरकप्रामाण्यदत्तभरः प्रश्नो घटत इत्याशयवानवतारयति-अथ ग्राम्य इति / प्रकृत्यापन एव, तेन यथा प्रथमं 'हा तो' इत्यादिप्रश्ने गतिस्तथात्रापीति ग्राम्यप्रकृतिस्थयोरुपन्यासः / भाषाचित्रेण परस्परसंघर्षादेककाव्यरचनाप्रवृत्तयोाम्यस्यापि श्लोकश्लोकसमाप्तिपदारम्भो योग्य एव / यदि चायमेव समस्तं निर्वाहयत्नशेषशङ्कानिवृत्त्युपयुक्तमुत्तरं नागरस्य निवेशितं स्यादिति तदुत्तरानुरोधेन पादार्ध एव विलम्बोऽप्युचिंतः / ऐसें' एवमित्यत्रार्थे काकुगर्भम् / 'सच्च जि बोल्लु' इति जिरवधारणे / सत्यमेवैतदुक्तम् / यदि सत्यपुरःसरं ब्रूयास्तदा प्रत्येमीत्यर्थः / एवं ग्राम्यताप्रतारणसिद्धौ किमत्र सर्वलोकसाक्षिके वस्तुनि वक्रोक्त्यैव पूर्वव्युत्पत्तिमात्रनिवेशनेनोत्तरं दत्त्वा श्लोकपूरणमेव नागरस्योचितमित्याशयेनोत्तरमवतारयति-अथेति / हस्ते इति प्रकृतिस्थम्, कटकमिति कोमलम् , दर्पणेनेक्ष्यते इत्येते प्रकृतिस्थे, इति प्रकृतिस्थादीनां सुपरिचेयत्वादाम्यादीन्येव व्याचष्टे-तत्र चेति। प्रकृतिव्यतिकराव्यतिकरत्वयोरौचित्यापन्नत्वाद्भाषासंकरः शोभावहत्वेन गुण एव भवतीत्युक्तमुपसंहरति-तदिति // वाक्यान्तरसगर्भ यद्वाक्यं तद्वाक्यगर्भितम् / रसान्तरतिरस्कारे तदिष्टं नेष्टमन्यथा // 119 // 8 स० क.