________________ 112 काव्यमाला। त्तरोपन्यासो हि प्रकृत्यैव च नागरका ग्राम्यमतविरोधिनो वक्रोक्तिरसिका भवन्ति / यदि तस्य ग्राम्ये जघन्यबुद्धिः किमित्युत्तरमेष दास्यतीत्यत उक्तम्-अनुजिघृक्षुरिति / सबहुमानं पृच्छति / ग्राम्ये यस्य दया तदानीमासीत् / जिज्ञासानिवर्तकज्ञानजननमनुग्रहः / यद्यपि नागरस्य नागराणि पदानि प्रयोक्तुमर्हन्ति, तथापि ग्राम्यानुग्रहे कर्तव्ये तद्बोधयोग्यमेवाभिमतं न तु नागरकत्वम् / तर्हि ग्राम्यैरेव कुतो न ब्रवीतीत्यपि न वाच्यम् / सहसैव तथाकरणे ग्राम्यमतविरोधः / अपि तूपनागरकरूपभङ्गप्रसङ्गात् , ततो मध्यमान्युपनागराणि प्रयोगयोग्यानीत्याहउपनागरैरिति / स्वभावत एव प्राकृतप्रकृतिस्थानां संस्कृतप्रकृतिस्थानां प्रौढत्वं भवति। तेन यद्यपि ग्राम्यप्रयुक्तजातीयान्येव संदर्भेकरूपतासिद्ध्यर्थं घटपितुमुचितानि तथाप्यौचितीप्राप्तसंस्कृतपदनिवेशने यदि प्रकृतिस्थत्वमाद्रियेत ततश्छायावरूप्यं स्यादित्याशयेन कोमलप्रायाण्येव निवेशितानीत्याह-कोमलैवेति / भूयसा व्यपदेशो भवतीति लोकन्यायानुसारात् 'साक्षात्' इत्येकस्य प्रकृतिस्थत्वेऽपि कोमलैरित्युक्तम् / साकाङ्क्षप्रश्ने च किमर्थं लोकोत्तरो 'जो जलदेउ' नान्यः कश्चित्तादृगिति भाबो विवक्षितस्तत्र नेत्येवोक्तेनानुग्रहः कृतः स्यादित्यधिकमपि किंचिद्वक्तुमुचितमित्याहसवक्रोक्तीति / एतेन नागरकवृत्तिरुपबृंहिता / नैवेत्येवकारेण मनुष्य एवायं न भवति दूरे तद्विशेषरूपो 'जो जलदेउ' इति प्रकाशितम् / साक्षादिति प्रत्यक्षेणावधार्यमाणः किंचिद्व्युत्पन्नत्वेन ग्राम्यस्योक्तत्वात् / कामव्यावृत्तसाक्षाद्भावलक्षणविरुद्धधर्मानुसंधानेन मदनदाहव्यतिकरता संभवतीति लब्धावसरं ग्राम्यानुयोगमवतारयति-अथेति / शिक्षाविशेषस्पर्शिनी बुद्धिः प्रतिभा / मामेकान्ततो नागरकवृत्तपरिचयपराधीनं मा शकिष्ठा इत्याशयशाटीर्येण नागरकप्रयुक्तजातीयैरेव पदैः प्रश्नो योग्यो न चैतावतैव सर्वथा प्रकृतित्यागोऽर्हतीत्यतः स्वप्रयोगयोग्यान्यपि प्रयोगमर्हन्ति तत्रार्धं प्रकृतिवैशसेनार्धं प्राकृतमधं ग्राम्यं च प्रश्नवाक्यानु. चितमित्याह-पूर्वपदानुरोधादिति / पूर्व परप्रयुक्तं पदं तर्कितम् / सच्चिमा सत्यः / यावती ग्राम्यस्य व्युत्पत्तिरर्हति तावतीमुपन्यस्यति-श्रूयत इति / ऐतिहासिकमुखादेवमाकर्णितं पुनरद्यापि निर्णयो वर्तत इत्यर्थः / तर्कितमिति प्रकृतिस्थम् / दीसईति कोमलम् / सच्चिमेति प्रकृतिस्थम् / हतवपुरिति कोमलम् / कामः किलेत्यपि तथा / श्रूयत इति प्रकृतिस्थमिति / अनन्तरं नागरिकस्योत्तरा... 1. 'मर्हाणि' इति स्यात्. 2. 'तत् किम्' इति स्यात्. 3. 'सच्चमा' इति मूलादत्रये पाठः.