________________ * 1 परिच्छेदः / सरखतीकण्ठाभरणम् / 111 पनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः श्लोकमुत्तरं च पूरयति'हस्तकटकः किं दर्पणेनेक्ष्यते' इति / तत्र च प्राकृतानां सर्वेषामपि ग्राम्यत्वम् / प्रष्टुः संस्कृतपदेषु वपुरित्युपनागरं शेषाणि ग्राम्याणि, प्रतिवक्तुश्च हस्तविवाहगौरीपदानि ग्राम्याणि, भूतपतिनेति नागरम्, शेषाण्युपनागराणि / तदिदमीदृशि प्रमेये तथैवोपक्रमादेतन्न दुष्यति / / / प्रकृतिस्थेति / 'विभिन्न-'इत्यादावपदलक्षणसूत्रे षण्णामिति व्यतिकर एकत्वेन नाभिप्रेतः / अपि तु ग्राम्यादित्रिकस्य वा प्रकृतिस्थादित्रिकस्य वेति विकल्पेनोपन्यासप्रयोजनमनुज्ञासंपत्तिस्तेन दोषताभावगुणीभावा प्रतिपादितौ / विषयं दर्शयति-भाषाचित्र इति / संस्कृतादिव्यतिकरस्यापदत्वेनाभिप्रेतत्वात् संस्कृतादयो ग्राम्यादयः प्रकृतिस्थादयश्च भाषाशब्देनाभिमताः / यथा हि-नानावारब्धमालेख्यचित्रं यथा वा भिन्नप्रकारतन्तुनिर्वातः पटश्चित्रपटस्तथा नानाभाषाभिरारब्धं किंचित्काव्यं चित्रमुच्यते / चित्रमाश्चर्य तत्कारि च चित्रम् / तेन रूपद्वयसंपत्तौ युक्तिपोषः स्यादेवं यथौचित्याकृष्ट नानाभाषाव्यतिकरजमेकं संभवतीत्याशय संक्षेपात्सर्वं भाषासंकरमेवोदाहरति—यथेति / संकरमाचिती च व्याख्यानेन स्फुटयति-अत्र ग्राम्य इति / ग्रामवासी किंचिद्व्युत्पन्नश्च / ग्राम्याश्च नगरवस्तुन्यद्भुतचमत्कारवन्तो जिज्ञासवश्च भवन्तीति जातिः / तत्र राजानं दृष्ट्वैति अद्भुतवस्तुकथनेन चमत्कारः / पृच्छतीति जिज्ञासा बहुमान आदरश्चमत्कारेणव / यद्वा यान्पृच्छति तेष्वेव बहुमानो धन्यास्ते ये नामगोत्रादिकमेतस्य जानन्तः सततमेनमवलोक्यन्त इत्याशयात् / प्रस्तुतग्राम्यप्रकृतेश्चास्य प्राकृतपदैरेव प्रश्नो योग्यः / तदेतत्सर्वमादर्शयितुं प्रश्नं पृथकृत्य दर्शयति-हा तो इत्यादि / 'हा तो' इति महाराष्ट्रभाषायां प्रश्नकाकुरयं स इत्यर्थे / स इति यो नामैतनगरनायकत्वेनास्मद्भामेऽपि बहुशो विख्यातकीर्तिरिति चमत्कारः / जो जलदेउ इति / जिज्ञासासामान्यतश्च नगरसंचरिष्णुजनगोचरोऽयं प्रश्नः / अत्र सर्वाण्येव पदानि नातिहीनपात्रे ग्राम्ये प्रकृतिभवान्यपभ्रंशपदानि देशीपदत्वेन सर्वेषां ग्राम्यता / 'हा तो' इत्यनेन स्वरकृतगौरवम् / 'जो जलदेउ' इत्येकसंयोगवर्णापादितगौरवं च प्रकृतिस्थं तदत्र प्राकृतग्राम्ययोरौचित्याकृष्टम् / प्रकृतिस्थे तु नौचित्यमुपयुज्यते / अपि तु संदर्भारम्भस्तेन प्रक्रान्त इति विवक्षितम् / अधिकस्य प्रष्टव्यस्याभावादेतत्प्रश्नानन्तरमेवोत्तरावसरः / ततश्च नानौचित्यम् / प्रश्नो