________________ 110 काव्यमाला। पदे किमिदमनेनान्वीयतेऽनेन वेति संदेहसंकीर्णतासंशयोऽपि संकरमध्यासीन एवेति गुरवः / अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राजपदं संदंशपतितं किं पूर्वेणाथ परेणान्वीयत इति संदिह्यते / राजगोक्षीरादौ द्वयेनान्वयो गोपदस्य निश्चित इति // प्रकृतिस्थादिभेदेन ग्राम्यादिभिरथापि या / अपदं तस्य चानुज्ञा भाषाचित्रे विधीयते // 118 / / यथा-- 'हा तो जो जलदेउ नैव मदनः साक्षादयं भूतले तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते / 'ऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे ऐसें सच्च जि बोल्लु हस्तकटकः किं दपणेनेक्ष्यते // 159 // ' अत्र ग्राम्यः प्रष्टा नगरमागतो राजानं दृष्ट्वा ग्राम्यैः प्रकृतिस्थैरेव वा पदैः प्राकृतेन पृच्छति-~-'हा तो जो जलदेउ' इति / नागरश्च तमनुजिघृक्षुरुपनागरैः कोमलैर्वा पदैः सवक्रोक्ति प्रत्याचष्टे—'नैव मदनः साक्षादयं भूतले' इति / अथ ग्राम्य आहितप्रतिभः पूर्वपदानुरोधादर्घप्राकृतेनैव ग्राम्योपनागरैः प्रकृतिस्थकोमलैर्वा पदेस्तमुपालभते-'तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते' इति / अथ नागरो ज्ञाततत्प्रा. वीण्यः पादानुरोधादेव अर्धप्राकृतेन ग्राम्योपनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः समाधत्ते–'ऐ दूए किअलेउ भूतपतिना गौरीविवाहोसवे' इति / अथ ग्राम्यः श्लोकसमाप्तेः पादस्य तदुत्तरस्य चानुरोधाद्वाम्याणि प्रकृतिस्थानि वा त्रिचतुराणि पदानि प्राकृतेनोक्त्वा पादार्थ एव तिष्ठति- 'ऐसें सच्च जि बोल्ल' इति / अथ नागरो जितकाशी ग्राम्यो 2. 'पच्छा ऐ' इति टीकासंमत 1. 'ता किं' ग; परंतु 'तक्किम्' इति भनेव. मुख्यपाठः. 3. 'ण्यस्तत्पदा' क-ख.