________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / 109 लङ् च' इत्यनेन माशब्दादुत्तरं यत्र स्मशब्दप्रयोगस्तत्र लुङ्लङोर्विधाने पदक्रमनियमः कृतस्तत्कथं स्म ममेति प्रयुक्ते सोऽर्थः प्रत्येतव्य इत्यत आह-व्यस्त इति / विशेषेण लक्ष्यत इति विशेषणलक्षणं तस्य भावस्तत्त्वम् // पर्यायेण द्वयोर्यत्र वाक्यं प्रश्नोत्तरादिषु / संकीर्ण तन्न दोषाय वाकोवाक्यविदो विदुः // 117 // यथा'बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि / तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते // 158 // ' __ अत्र संकीर्णत्वेऽपि वाकोवाक्यत्वान्न दोषः // पर्यायेणेति / यत्र वाक्यैकवाक्यतायामवान्तरवाक्येषु परस्परपदार्थप्रवेशेन यथाभिमतसंसर्गप्रतीतिः स्खलिता भवति तत्र संकरो दूषणम्, प्रतीतेरस्खलने तु न दोषः / स्खलनं चानेकवक्तृकपर्यायप्रवृत्तवाक्यावयवमिश्रणेन भवति / तदपि मिश्रणं प्रश्नोत्तररूपमन्यादृशं वा भवतीत्याह-प्रश्नोत्तरादिष्विति / विषयसप्तमीयम् / वाक्ये वाक्यं वाकोवाक्यं पृषोदरादित्वात्साधु / तत्र प्रश्नोत्तरादिरूपं वाकोवाक्यमुदाहरति-बाले इति / अत्र 'बाले विमुञ्च मां प्रति रुषम्' इति प्रथमप्रश्नवाक्यम् / 'नाथ रोषान्मया किं कृतम्' इति तादृशमेवोत्तरवाक्यम् / तत्र बाले इति वाक्यप्रतीकानन्तरमेव नाथेति वाक्यान्तरप्रतीकस्य निर्देशः संकीर्णजातीयतामाकारयितुमुद्यतः प्रश्नोत्तरप्रभावादपोद्यते / संकीर्णयोरपि वाक्ययोः पर्यायनिर्देशे भवत्येव वाकोवाक्यमिति चेत्, न / व्यतिकरस्याभिप्रायविशेषव्यञ्जकठ्या चमत्कारकारित्वेन विजातीयत्वात् / अत एव गुणत्वम् / तथा हि बाले इति पदं परचित्तानभिज्ञायाः क्षुद्रसहचरीवचसि विश्वासभाजः सोपालम्भं संबोधनमाविष्करोति / एतदाकानन्तरमेवेाकषायकामिनीवचनमुचितमिति नाथेति संबो. धनं साभिप्रायम् , प्रभुरसि न पुनरस्मासु दत्ताशयो न वा खाधीनतासौभाग्यभागिति विवक्षितत्वात् / एवमुत्तरत्र स्वयमुन्नेयम् / उपलक्षणं च द्वयोरिति एकस्यापि वक्तुः प्रहेलिकादौ तद्विद्यविषये तदाभाषणस्योचितत्वात् / विजातीयवाक्यद्वयसंदंशपतित