________________ 108 काव्यमाला। यथा 'हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा। .. हन्यते चारुसवाङ्गी हन्यते मजुभाषिणी // 156 // ' अत्र हन्यते हन्यत इति शब्दपुनरुक्तं चारुसर्वाङ्गी वरारोहेत्यर्थपुनरुक्तं तदुभयमप्यनुकम्पाद्यतिशयविवक्षायामदोष इति गुणत्वम् // - अनुकम्पेति / संभ्रमादी यावद्बोधमित्यादिना पदद्विरुक्तयादेरनुमतत्वान्न दोषत्वम् / अभिप्रायव्यञ्जननयत्येन प्रकृतिपोषानुगुणतया गुणत्वम् / तथाहि हन्यत इत्यादौ हन्यत इति यद्यप्यभिधेयतात्पर्यमिति शब्दपुनरुक्तजातीयं भवति, यद्यपि च वरारोहेत्यभिधाय चारुसर्वाङ्गीत्यभिन्नाभिधेयतात्पर्य पर्यायरूपत्वादर्थपुनरुक्तजातीयम् , तथापि विरहवेदनादूनायामनुकम्पातिशयादसकृदुपादानमहिरहिर्बुध्यखेति लोकानुसारात् / अनुकम्पाभयाद्यस्य हि तादृशी पदद्विरुक्तिरभिप्रायविशेपार्थनिष्पादितया गुणकक्षाधिरोहणक्षमैवेत्याशयवान्व्याचष्टे-तदुभयमपीति // पदानां व्युत्क्रमो यत्र क्रमेण व्युत्क्रमेण वा / तयाकीण विदुस्तस्य न दोषः कापि तद्यथा // 116 // 'जुगुप्सत स्मैनमदुष्टभावं मैवं भवानक्षतसाधुवृत्तः / इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः॥ 157 // ' अत्र ‘मा स्म जुगुप्सत' इति वक्तव्ये 'जुगुप्सत स्मैनमदुष्टभावं मैवम्' इति पदव्यतिक्रमस्य 'व्यस्तेऽपीच्छन्ति केचित्' इति लुङ्लडोर्विशेषलक्षणत्वाद्गुणत्वम् / / पदानामिति / एकस्मिन् वाक्ये पदानामुचितसंनिवेशविपर्यासः क्रमभ्रंशः / स द्विधा भवति–पूर्वापरभावनियतानां तादृशक्रमप्रच्यावनेन वा / यथा बहुतणमित्यन्योऽर्थः, तृणं बबित्यन्यः / पूर्वापरनियमशून्यानामिति तादृगुच्चारणविपर्यासेन वा / यथा कपालमनुलिम्पति, दुकूलं परिदधातीत्यत्र क्रमनियमोऽभिमतः / अनुलिम्पति कपालम् , परिदधाति वस्त्रमित्यपि कृतेन तस्यैवार्थस्य लाभात् / यदा तु कपालं परिदधाति दुकूलमनुलिम्पतीति क्रियते तदा भवति संनिधिविपर्यासस्तदेतद्याकीर्णसंकीर्णयोस्तुल्यं, तदिदमुक्तम्-क्रमेण व्युत्क्रमेण वा / ननु ‘स्मोतरे