________________ 1 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / 107 यदाह न संहितां विवक्षामीत्यसंधानं पदेषु यत् / तद्विसंधीति निर्दिष्टं न प्रगृह्यादिहेतुकम् // 114 // विरूपेति / विरूपो दुर्वचको विसंधिर्विगतं संहिताकार्य दुर्वचके कलाविशेषरूपतयानुमते संहिताकार्यनियमः / द्वितीये कुत्रादूषणमित्याह-प्रगृह्यादाविति / प्रगृह्यं 'ईदूदेद्विवचनं प्रगृह्यम्' इत्यादिना यत्र प्रगृह्यसंज्ञा विहिता, आदिग्रहणाद्विनापि प्रगृह्यसंज्ञया यत्र प्रकृतिभावविधानं तथोदाहरिष्यते / यत्र वा वक्तुः खेदादिना विच्छिद्य पाठे विरतिर्भवति / यथा—का एकशिरोरुहेति / तदेवं दुर्वचकप्रगृह्यादि यथासंख्यं विरूपविसंधिविगतसंधानयोरपवादकारणे इत्याह-अत्रेति / प्रयुज्यन्त इति प्रयुक्तयो दुर्वचकाश्च ताः प्रयुक्तयश्चेति दुर्वचकप्रयुक्तय इति कर्मधारयः / सुदुर्वचा इति अन्येनोच्चारयितुमशक्याः / वयमेव कविः प्रतिज्ञाय उत्तरार्धे दुर्वचकान्याह-अमेडित्यादि / हे नगेड्जे पर्वतराजपुत्रि, खमाकाशं भेड् भानां नक्षत्राणामीडीश्वरश्चन्द्रः सोऽविद्यमानो यत्र / तिरोधानादसत्कल्पना चन्द्रमसः / केन पुनस्तिरोधानमित्याकाङ्क्षायां द्वितीयं विशेषणम् -अपोग्रेति / अपगतोग्रदीप्तिर्भ उग्ररुचिरादित्यस्तदीयद्रोहकारिणोऽभ्रपदवाच्या मेघा यत्र / अप्सु रोहतीत्यब्रुद् पद्मं तद्वन्मुखं यस्या इति देवीसंबोधनम् / चेदीदृशं तर्हि सध्या सहचरो भवास्माकमिति गौर्या उत्तरम् / कलारूपत्वेन विरूपसंधानस्य गुणत्वमित्याह-कलाविद्भिरातत्वादिति / कमले इवेत्यादावुदाहरणत्वान्नैकः श्लोकार्थः / पूर्वार्धे कमले इत्यादित्रितयं प्रगृह्यसंज्ञोदाहरणम् / उत्तरार्धे विनव प्रगृह्यसंज्ञां प्रकृतिभावविधानं यत्र तन्त्रितयोदाहरणम् / तथाहि-अब्दऋताविति / 'न ऋच' इति च 'ऋत्यकः' इत्यनेन प्रकृतिभावः / यजूंषि ऊहस इति 'इकोऽसवर्णे शाकल्यस्य ह्रखश्च' इत्यनेन / अपरमादिपदग्राह्यं पूर्वमुदाहृतम् / अापि स इति बोद्धव्यम् / तदेतच्छास्त्रानुमतमपि घटनासौष्ठवेन निवेशनीयम् / न त्वन्यथा / उक्तं च पूर्वमेव यत्प्रगृह्यादिहेतुकमपि नासकृत्प्रयोक्तव्यमिति // - अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते / न दोषः पुनरुक्तेऽपि प्रत्युतेयमलंक्रिया // 115 //