________________ काव्यमाला / प्रायविशेषः / तथा हि-बन्धुत्याग इत्यादी बन्धुत्यागतनुत्यागदेशत्यागान्कमेणोदिश्य तथैवानुदेशोऽप्यर्हति न त्वादिममुद्दिश्य ततोऽन्त्यस्ततो मध्य इति उद्देशानुदेशलक्षणशास्त्रक्रमभ्रंशजातीयत्वेऽपि संबन्धज्ञानहेतुयत्नकरणाददूषणत्वं व्यवस्थाप्यते / यत्नश्चायमेव यदादिपदैरुल्लेखः / तानि हि तत्तत्स्थानविशेषगामिन एवं प्रतीतिमुपजनयन्ति / अवश्यं चानेन क्रमेणात्र वक्तुमुचितं तनुत्यागस्य विजातीयताविवक्षया पृथगेव वक्तुमर्हत्वात् / एवं चानुपपत्तिोंके बन्धुत्यागापेक्षया शरीरत्यागस्यातिकृच्छत्वेन प्रसिद्धिः / अतश्च 'मध्यम आयतक्लेश आद्यन्तौ क्षणिकज्वरौ' इति वचनमुचितमिति आर्थक्रमभ्रंशः कथं न भवति तत्राह-वतुश्चेति। अभिमतमित्यनेनाभिप्रायविशेषोऽपवादहेतुः-'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते / आभासो व्यर्थ एकस्मिन्ननुसंधानसाधितः॥' इति न्यायादुपपन्नमेवैतदिति // विरूपसंधि यत्पूर्व विसंधि च निरूपितम् / न च दुर्वचके प्रायः प्रगृह्यादौ च दुष्यति // 113 // तत्र दुर्वचके विरूपसंधिर्यथा'जयन्ति वर्षाखिति भर्गदुर्गयोः सुदुर्वचा दुर्वचकप्रयुक्तयः / अभेण्नगेड्जे खमपोग्रभोयरुग्ध्रुझमब्रुण्मुखि सध्यगेधि नः / 153 // ' अत्रोत्तरार्धस्य विरूपसंधित्वेऽपि दुर्वचकत्वेन कलाविद्भिराहतत्वाद्गुणत्वम् / यदाहुः 'शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये / . प्रहासाय च गोष्ठीषु वाच्या दुर्वचकादयः // 154 // " प्रगृह्यादौ विगतसंधिर्यथा'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः। . स इतोऽब्दऋतावृतप्रियो न ऋचस्त्वं न यजूंषि ऊहसे // 155 // ' अत्र विसंधेः प्रगृह्यादिहेतुकत्वाद्गुणत्वम् / 1. 'मतत्वादि' इति स्यात्.