________________ '1 परिच्छेदः / सरखतीकण्ठाभरणम् / 105 - यस्य वस्तुनो नानारूपाणि विजातीयरूपाणि तत्र तद्रूपविवक्षावैचित्र्याच्छब्दवैचित्र्यं संगच्छत इति दोषत्वाभावः / एवं रूपता गंमितवतीत्यादौ कदापि नास्तीति दोषरूपतषा / क्वचित्पुनरस्ति रूपान्तरमित्याह-वचिदिति / भवत्वेवम् / गुणत्वं तु कथमित्यत आह-निसर्गेति / नियतरूपविवक्षा हि महाकवीनां न लावण्यमनुसंधाय भवितुमर्हति / तथाहि-आक्षिपन्तीत्यादौ एषां दुष्करमित्यत्र ख. लर्थयोगे 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इत्यनेन षष्ठीप्रतिषेधादेषामिति कथं षष्ठीति दुष्टजातीयतामादाय शेषरूपविशेषविवक्षा समाधानहेतुः / अस्ति हि षष्ठ्यर्थस्य सं. बन्धस्य द्वरूप्यम्-संबन्धसामान्यं विशेषश्च जन्यजनकभावादिः / तत्र संबन्धविशेषविहितषष्ठीमुपादाय 'न लोक-' इत्यादिना निषेधः। संबन्धसामान्यरूपमुपादाय षष्टी केन वार्यते / अयमेव संबन्धः शेष इत्युच्यते / एवं तावन्न दोषत्वम् / यथा कोषसमग्राणां राज्ञां विपक्षश्रीहरणमुपदिश्य यत्किमपि संबन्धिमात्रमेव न दुष्करं तथा पद्मानामिति समर्थयामहे / कथमन्यथा दुरापत्वद्वदनश्रीहरणमिति प्रकृतपोषलाभाद्गुणत्वमतिसुलभं तदेतद्याचष्टे-अत्रेति / ननु संबन्धमात्रविवक्षायां दोषता मा भूत् , गुणत्वं तु कथमिति यथोक्तमभिसंधाय परमतं लिखति-इदं हीति / शास्त्रमाहात्म्यं विधिनिषेधयोः परस्परासंकीर्णविषयत्वम् // यत्नः संबन्धनिर्ज्ञानहेतुः कोऽपि कृतो यदि / क्रमलङ्घनमप्याहुन दोष सूरयो यथा // 112 // बन्धुत्यागस्तनुत्य गो देशत्याग इति त्रिषु / आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः // आद्यन्तौ मध्यम इति संबन्धनिर्ज्ञानहेतोर्विधानान्न शाब्दक्रमलङ्घनं दोषः / वक्तुश्च बन्धुत्यागदेशत्यागयोस्तनुत्यागाद्रीयस्त्वेनाभिमतत्वादित्यर्थक्रमलङ्घनस्यापि गुणत्वम् // यत्न इति / क्रमभ्रंशे हि यथाभिमतान्वयप्रतीतिप्रत्यूहो दूषकताबीजम् / तद्यदि कुतश्चिद्विशेषादस्खलितैव प्रतीतिरुपजायते तदा बीजाभावेन तथाभावो निवर्तत एव / स च विशेषः प्रतिपदमनुक्रमितुं न शक्यते इति कोऽपि यत्न इति सामान्येन प्रतिपादितम् / सोऽयं शब्दकमलङ्घनापवादः / अर्थक्रमलङ्घने त्वभि. 1. शब्दहीनदोषोदाहरणभूते 'नीरन्ध्र गदितवति' इत्यादौ...