________________ 104 . काव्यमाला / / तया रसतापन्नम् / उपपद्यते च तच्चित्तस्य सादृश्यमात्रेणं तद्रूपतानुसंधानम् / ततश्च कथं नोद्दीपनता वस्तुसत्त्वस्यानुपयोगित्वात् / अत एव सूत्रितस्य बीभत्सस्य प्रकृतेन बाधात् प्रकृतार्थानुपोष इति // / ननु कथमुद्देशे चतुर्विंशतिधेत्युक्तम् / दोषा हि पूर्व षोडशैव विभक्ता इत्यत आह.: अश्लीलादेरमी भेदा भिद्यन्ते यत्रिधा त्रिधा / भवन्ति नव तेनैते पूर्वोक्ता दश पञ्च च // 108 // चतुर्विंशतिरित्येषा प्रोक्ता पदसमाश्रया। समासात्पूर्वनिर्दिष्टदोषाणां गुणक्लप्तये // 109 // इत्येतत्पददोषाणामदोषखमुदीरितम् / / अश्लीलादेरिति / निगदव्याख्यातम् / चतुर्विंशतिरित्येषेति / आ दशभ्यः संख्या संख्येये वर्तते, ततः संख्याने संख्येये चाभिधानात् केवलसंख्यानवचनत्वेन गवां विंशतिरितिवत्पदसमाश्रयेत्युपपन्नम् / - इदानीं वाक्यदोषाणां गुणत्वमभिधीयते // 110 // क्रमप्राप्तवाक्यदोषगुणीभावव्युत्पादनमवतारयति-इदानीमिति // तत्र शब्दविहीनस्य विवक्षावशतः कचित् / निसर्गसुन्दरत्वेन गुणत्वं परिकल्प्यते // 111 // यथा'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखच्छविम् / कोशदण्डसमग्राणां किमेषां खलु दुष्करम् // 152 // ' अत्र 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इति कर्तृकर्मणोः षष्ठीप्रतिषेधे किमेषां दुष्करमित्यपभाषणेऽपि संबन्धमात्रविवक्षातो गुणत्वम् / . यदाह 'इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम् / - अपभाषणवद्भाति न च सौभाग्यमुज्झति // ' . 1. 'पूर्वदिष्टानां' ख. 2. 'कल्पना' ग. 3. 'षामस्ति' ग....