________________ दानीमेव समासन् / परं नात्र किमपि तथ्यमिति भोजप्रबन्धस्याप्रामाणिकतेदानीं सुप्रसिद्धव / - वाजसनेयिसंहितायाष्टीकाकर्ता औवटपण्डितो भोजसमकालिक इति तदीयलेखतो विज्ञायते। तथैव तिलकमञ्जर्याख्याया आख्यायिकायाः कर्ता धनपालोऽपि भोजस्य, भोजपितुः सिन्धुलस्य, भोजपितामहस्य मुञ्जस्य च काले जीवित आसीत् / एवमन्येऽपि दशरूपकादिकर्तारो धनिकप्रभृतयः / . : सिन्धुलो मुञ्जस्य कनिष्ठभ्राता, तत्पुत्रश्च भोजदेव आसीदिति सिध्यत्युपरिलिखितलेखेभ्यः। यद्यपि'मान्धाता स महीपतिः क्षितितलालंकारभूतो गतः सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः। अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन् नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति // ' इति पद्यं भोजोक्त्या प्रसिद्धं वर्तते / यदा किल मुजाज्ञया भोजो वधिकेन शिरश्छेदाय विजने नीतोऽथ संसूचितो मुञ्जाज्ञया तदानीं विलिख्यैनत् पयं संप्रेषितं भोजदेवेन मुञान्तिके इति भोजप्रबन्धानुसारमाबालवृद्धं प्रसिद्धिः / . एवं सरस्वतीकण्ठाभरण एव चाटूक्तयुदाहृतौ'सौजन्याम्बुनिधे बुधप्रिय गुणप्राकार धर्मद्रुम प्रारोह प्रतिपन्नवत्सल महात्यागिन् विवेकाश्रय / लक्ष्म्यावास मनखिनीमनसिजव्यापारदीक्षागुरो श्रीमन् मुञ्ज किमित्यमुं जनमुपस्प्रष्टुं दृशा नार्हसि // ' इति पूर्वश्लोकोपोद्बलकं पद्यमप्युपलभामहे / मुझे राज्यं शासति सति भोजोऽवश्यमेव निरपत्यस्यास्यासूयोद्भावकोऽभूदित्यपि नाश्चर्यम् / यतोऽस्मिन् पद्ये 'किमित्यमुं जनमुपस्प्रष्टुं दृशा नार्हसि' इति वाक्यं भोजोक्तिर्भवेदेषेति प्रमाणयति / यद्वा. तद्वा भवतु परं मुञ्जोत्तरं तत्कनीयान् सिन्धुलो राजाभवत् तदुत्तरं च भोजदेव इति तु निश्चितमेव / मुञश्च तत्प्रधानमन्त्रिणा रुद्रादित्येन निषिद्धोऽपि पूर्व यड्वारं तैलपं विजिग्ये इति सप्तमवारमपि गोदावरी समुल्लङ्याहवे प्रविष्टस्त्रिकलिङ्गदेशाधिपतिना तैलपेन