________________ पराजितो निगडितश्च / अथ काष्ठपञ्जरे प्रवेशितः शेषमायुः शेषितवान् / तत्र च परिचर्यानियुक्तया तैलपराजभगिन्या विधवया मृणालवत्या सह तस्य प्रेमबन्धः संजातः / मुञ्जमन्त्रिभिश्च निगडस्थानं यावद् भूगर्भे गुप्तमार्गः सुरङ्गाभिधो विरचितः / तद्वारा मुझे खराज्यं जिगमिषति मृणालवन्तीं तत्र पट्टमहिषीत्वेन संमानयिष्यामीति प्रतिज्ञातवति तां सह निनीषति च मृणालवती तत्र न विश्वसिति स्म / यतो मृणालवल्यास्तदानीं वयो मध्यमासीद्यदि किंचित्कालानन्तरं मत्परित्यागं कुर्यान्मुजस्तदाहं किं करिष्यामीति संदिहाना सा स्वीयालंकरणपुटकमानयामीति मिषेण स्वसहोदरान्तिके सर्वमप्येतद्वृत्तमाचख्यौ / तैलपः श्रुत्वैतवृत्तजातं परं क्रुद्धो मुझेन सह कठोरमाचरणं विदधे / सापमानं नगरे भ्रामयित्वा च शूले समारोपितअन् तमिति मेरुतुझाचार्यः स्वीयप्रबन्धचिन्तामणौ मुञ्जप्रबन्धे विलिखति / रायबहादुरपण्डितश्रीगोरीशङ्करहीराचन्दओझामहोदयानां संमतौ वृत्तमेतदतिशयोक्तिमूलमुपहासमूलं च / केवलं सत्यांशोऽत्रैतावानेव यन्मुञ्जो युद्धे मृतो वा निगडितो वा न परावृत्तः स्वीयामुज्जयिनी राजधानीमिति / सिन्धुलकालपण्डितो नवसाहसाङ्ककर्ता परिमलोऽपलापितवान् मुञ्जपराजयमिति विमर्शकोक्तिः साधीयसी / यतः 'खेनारातिकरालकालरचनाचण्डासिदण्डेन यो _ हत्वा मुञ्जमहानृपप्रणयिनीं संग्रामराङ्गणे / लक्ष्मीमम्बुधिमेखलावलयितक्ष्मावर्तिनीं प्रापयद् भूपश्रीरणरङ्गभीमभवने साक्षात्कुलस्त्रीव्रतम् // ' इति पद्यं नैलपसामन्तन्य द्वितीयभिल्लमस्य ताम्रपत्रे समुपलभ्यते। यत्र च रणरङ्गभीमस्य तलपस्य सदने मुजप्रियां लक्ष्मी भिल्लमः कुलस्त्रीव्रतं प्रापयदिति वर्णनं मुञ्जस्य पराभवं प्रकाशयति / . अथेदानी वयमप्यत्र मुञ्जराजवृत्तपुरःसरं तदानींतनमैतिह्य विलिखामः। बल्लालपण्डितः किल स्वीये भोजप्रवन्धे सिन्धुलो नाम राजा कनिष्ठे भ्रातरि मुजे राज्यभार संस्थाप्याल्पक्यस्कं भोजनामानमात्मजं तदधीनं कृतवान् , अथ मुञ्जो राज्यशासनलोलुपतया भोजस्य शिरश्छेदाय प्रयतितवानिति लिखति / किंतु नागरादधिगते 1161 विक्रमवर्षीयलेखे “वंशेऽस्मिन् वैरिसिंहः क्षितिपतिरभवद् भूरिभूतिप्रभाव ...... / तस्माद्वै... श्रीसीयकोऽभून्नृपः / तस्माद्वैरिवरूथिनीबहुविधप्रारब्धयुद्धाध्वरप्रध्वंसैकपिनाकपाणिरजनि श्रीमुजराजो नृपः / ... / तस्यासीदथ पार्थिवः पृथुयशाः श्रीसिन्धुराजो