________________ रुपेता स्यात् / तदनुलग्नं राज्ञः केलिगृहम् / मध्ये चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका। तस्यां राजासनम् / तस्य चोत्तरतः संस्कृताः कवयो निवि. शेरन् / बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते / यस्त्वनेकत्र प्रवीणः स संक्रम्य तत्र तत्रोपविशेत् ततः परं वेदविद्याविदः प्रामाणिकाः पौराणिकाः स्मार्ता भिषजो मौहूर्तिका अन्येऽपि तथाविधाः / पूर्वेण प्राकृताः कवयः ततः परं नटनर्तकगायन( क ?) वादकवाग्जीवनकुशीलवतालावचरा अन्येऽपि तथाविधाः / दक्षिणतो भूतभाषाकवयः, ततः परं चित्रलेप्यकृतो माणिक्यबन्धका वैकटिकाः वर्णकारवर्धकिलोहकारा अन्येऽपि तथाविधाः / दक्षिणतो भूतभाषाकवयः, ततः परं भुजङ्गगणिकाः प्लवकशोभिकजम्भकमल्लाः शस्त्रोपजीविनोऽन्येऽपि तथाविधाः / . तत्र यथासुखमासीनः काव्यगोष्टी प्रवर्तयेत् भावयेत् परीक्षेत च / वासुदेवसातवाहनशूद्रकसाहसाङ्कादीन् सकलान् सभापतीन् दानमानाभ्यामनुकुर्यात् / तुष्टपुष्टाश्वास्य सभ्या भवेयुः / स्थाने च पारितोषिकं लभेरन् / लोकोत्तरस्य काव्यस्य च यथाहाँ पूजा कवेर्वा / अन्तरान्तरा च काव्यगोष्टी शास्त्रवादाननुजानीयात् / मध्वपि नानवदंशं स्वदते। काव्यशस्त्रविरतौ विज्ञानिष्वभिरमेत / देशान्तरागतानां च विदुषाम(न्य ? )द्वारा सङ्गं कारयेदौचित्याद् यावस्थितिपूजां च / वृत्तिकामांश्चोपजपेत् संगृह्णीयाच पुरुषरत्नानामेक एव राजोदन्वान् भाजनम् / राजचरितं च राजोपजीविनोऽप्यनुकुयुः / राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः / महानगरेषु च काव्यशास्त्रपरीक्षार्थ ब्रह्मसभाः कारयेत् / तत्र परीक्षोत्तीर्णानां ब्रह्मरथयानं पटवन्धश्च / श्रूयते चोज्जयिन्यां काव्यकारपरीक्षा. 'इह कालिदासमेण्ठावत्रामररूपसूरभारवयः। हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम् // ' श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा 'अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः। . वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः // ' इत्थं सम्मपतिर्भूत्वा यः काव्यानि परीक्षते। यशस्तस्य जगद्यापि स सुखी तत्र तत्र च // ' सरस्वतीकण्ठाभरणकर्तुर्भोजदेवस्यापि विद्वत्सभावश्यमेवैतादृशी संभाव्यते। तत्र च तत्समसामयिकानां विदुषां राजसभासभास्तारत्वमपि तथैवास्ते स्मेत्यपि निश्चितमनुमीयते / भोजप्रबन्धकर्तुर्बल्लालपण्डितस्य मतेन तु सर्वेऽपि महाकवयो बाणमयूरादयस्त