________________ खतीकण्ठाभरणकर्ता भोजदेवः 1010 खुस्तीयकालमारभ्य 1055 खुस्तीयसंवत्सरपर्यन्तं धारानगर्यां राजमान आसीत् / महाराजाधिराजस्यास्य खहस्ताक्षरालंकृतं दानपत्रत्रयमद्यावधि समुपलब्धम् / असौ भोजदेवः कविः कवीनां संरक्षकों वास्तवं दानवीर आसीत् / आबालवृद्धं विक्रमादित्यनामेव भोजराजनाम्नापि सुविदितः / मूलमस्य विद्वत्समादर एवेति न नामाविदितं कस्यापि संस्कृतभाषाभाषिणः / 'प्रत्यक्षरं लक्षं ददौ' इति वारंवारं समुल्लिखन् बल्लालपण्डितः खीयभोजप्रबन्धे प्राक्तनानपि विदुषो भोजसमकालिकानेव विदधानस्तेषां राजसभायां समुचितं समादरं रारटीति। कहणपण्डितोऽपि 'स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ / सूरी तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवौ / ' (राजतरङ्गिणी 7 / 259) एवं भोजसमानकालिकः साहित्यविद्यासूत्रधारः श्रीमम्मटपण्डितोऽपि _ 'भोजनृपतेस्तत्त्यागलीलायितम् / ' इति काव्यप्रकाशे दानवीरमेनं विद्वज्जनवल्लभं स्तौति / अस्मद्गुरुचरणानां जयपुरराजकीयसंस्कृतपाठशालाध्यक्षाणां महामहोपाध्यायश्रीदुर्गाप्रसादद्विवेदिमहोदयानां तु मतेन 'प्रत्यक्षरं लक्षं ददौ' इत्यस्य 'प्रत्यक्षरं लक्ष्यं ददौ' इति परिवर्तनं कियन्त. मतिशयं धत्ते नामेति विद्वद्भिर्विशेषतो कवयितृभिर्विचार्य नाम / यतो राजा यदि स्वयमेवंविधविधो भवेद् यः प्रत्यक्षरं लक्ष्यं दद्यात्तदा तल्लक्ष्यमूल्यतो लक्षस्य द्रविणस्य नातिरेकः / __ भोजदेवसमये काष्टवाहकोऽपि संस्कृतभाषापरिचित आसीत् / सरस्वतीकण्ठाभरणे 'भूरिभारभराक्रान्त बाधति स्कन्ध एष ते / न तथा बाधते स्कन्धो यथा बाधति बाधते // ' __इति स्वयमुदाहरनस्माकं प्रियतरो दानविश्रुतो भोजः स्वस्य. संस्कृतविद्याप्रेमोत्तम्भयामास। तस्मिन् काले राजसभा विद्वत्प्रवेश्या कथंविधासीदिति कल्पने यायावरीयों राजशेखरः काव्यमीमांसायामेवमादिक्षत् राजा कविः कविसमाजं विदधीत / राजनि कवौ सर्वो लोकः कविः स्यात् / स काव्यपरीक्षायै सभां कारयेत् / सा षोडशभिः स्तम्भैश्चतुर्भिीरैरष्टभिर्मत्तवारणीभि