________________ ब्रह्म 102 काव्यमाला / / दनुत्थानं दोषाभावत्वद्वारं, ततश्च मुख्य एव स्थाने जुगुप्सादायित्वं पूर्वाचार्यश्लोकेनैव व्याचष्टे--अत्रेत्यादि / गुणग्रस्तत्वमभिप्रेत्यातिशयसंपत्तौ प्रकृतौचित्याकपोलस्यैव प्रतिभासस्तदिदमुक्तम्-रागातिशयहेतुभूतयोरिति / तथा च जगन्नयनानन्दभूतस्य निःशेषिताशेषतमसश्चन्द्रमसो यदिदमभिप्रेतकामिनीकपोललावण्यबिन्दुमात्रतया भानं तदुचितमेवेति // प्राच्यानामेव वासनामभिसंधाय स्मृतिहेतुमुदाहरति. घृणावस्मृतिहेतुर्यथा 'विपूयरशनावन्तः पलाशाषाढधारिणः / ब्रह्मवर्चखिनो यान्ति द्विजपोगण्डका इमे // 149 // अत्र वियूयपलाशब्रह्मवर्चसपोगण्डशब्दानां घृणावत्स्मृतिहेतुत्वेऽप्यन्यत्र लक्षितत्वाददोषत्वम् // यथेति / आषाढो दण्डः / ब्रह्मवर्चसिन इति / 'ब्रह्महस्तिभ्यां वर्चसः' इति समासान्तस्ततो मत्वर्थीय इनिः / पोगण्डो बालः // एवमन्यप्रकारमपि संव्यानादिकं स्वयमुन्नेयमित्याहएवमन्यदपि द्रष्टव्यम् / अत्र चकिंचिदाश्रयसंबन्धाद्धत्ते शोभामसाध्वपि / कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् // 106 // तद्यथा'अन्नप्रोतबृहत्कपालनलकक्रूरक्कणत्कङ्कण प्रायप्रेखितभूरिभूषणरवैराघोषयत्यम्बरम् / पीतच्छतिरक्तकर्दमघनप्राग्भारघोरोल्लस व्यालोलस्तनभारभैरववपुर्दोद्धतं धावति // 150 // ... अत्राश्रयस्य बीभत्सरसोचितत्वाददोषेत्वम् // 1. 'ब्रह्मवर्चसिनः' इति पाठष्टीकानुसारी. 2. 'प्यत्र' क-ख. ३."न्यत्र' क. 4. 'लोकने' क. 5. 'दोषः' क-ख.