________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / भासयन्ति पदानि दोषतया न प्रतिभासते / तत्र वीथ्यङ्गविशेषोपक्षेपस्पामुखशरीरत्वादौचित्यनिवेश एव स्फुटं कारणमित्याशयो बोद्धव्यः / औचित्यविरोधो न सार्वत्रिक इति नातिप्रसङ्गः॥ यथा च-.. 'कोऽभिप्रेतः सुसंस्थानस्तस्या इति न निश्चयः / आशापिशाचिकैषा तु कुमारी मां वरिष्यति // 146 // ' अत्राभिप्रेतसुसंस्थानाशापिशाचिका कुमारीति पदानामशस्तस्मृतिहेतूनामपि लोकैरन्यत्र लक्षितत्वाद्गुणत्वम् // कोऽभिप्रेत इत्यादौ पूर्ववदेव वासना // एवं घृणावदर्थादीनामपि गुणत्वम् / तत्र घृणावतो यथा 'पद्मान्यांशुनिष्ठयूताः पीत्वा पावकविपुषः / भूयो वमन्तीव मुखैरुदोर्णारुणरेणुभिः // 147 // अत्र 'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् / अतिसुन्दरमन्यत्तु ग्राम्यकक्षां विगाहते // ' घृणावदर्थान्तरस्य यथा- ... 'कामिनीगण्डनिस्यन्दबिन्दुरिन्दुर्मतो मम / . अन्यथा कथमेतस्य जगदुद्दयोतिनी द्युतिः // 148 // अत्र रागातिशयहेतुभूतयोः कामिनीकपोलचन्द्रमसोः खरूपभावनामाहात्म्येनार्थान्तरभावना गुप्तेति गण्डनिस्यन्दबिन्दुरित्यस्य घृणावद. र्थान्तरस्यापि न दोषत्वम् // . अथापरं संख्यानप्रकारं घृणावदर्थे कथयति-यथेति / गुणवृत्तिव्यापाराश्र-. येष्ववान्तरादिपदेषु प्रथमत एवान्यक्रियादिधर्माणामन्यत्रारोपे समाधिप्रादुर्भावा 1. 'यथा वा' ग. 2. निःस्यन्दि' स. 3. 'मैतिर्मम' ख-ग. 4. दोषः' क-ख.