________________ .. काव्यमाला एवमशस्तादीनामपि गुणत्वम् / यथा'भद्रे मारि प्रशस्तं वद सदसि मुदा नृत्य कृत्ये मुहूर्त __मृत्यो रनैश्चतुष्कं विरचय रचयारात्रिकं कालरात्रि / चामुण्डे मुण्डमालामुपनय विनयस्वायतां भैरवीर्ष्या__ मेवं देवे भवानीं वदति परिजनव्याहृतिस्त्रायतां वः // 144 // ' अत्र मारीकृत्यादीनामशस्तार्थानामपि पदानां समस्तमङ्गलायतनस्य भगवतो विश्वेश्वरस्य संबन्धेनोक्तत्वाद्गुणत्वम् / / - पुनरपरेण प्रकारेण संव्यानं भवतीत्यप्रशस्ते स्फोरयति / परमेश्वरस्य मङ्गलायतनत्वं तत्संबन्धिमात्रस्यैव मङ्गलीभवननियमेन शास्त्रेतिहासादौ प्रसिद्धत्वात् / तदुक्तम्-'तथापि स्मर्तृणां वरद परम मङ्गलमसि' इति / अयं च प्रकारोऽप्रशस्तार्थ एव भवति / मार्यादयो मातृविशेषाः / आरात्रिकं नीराजनदीपव्यासङ्गपात्रम् / परिजनपदं संबन्धं पुष्णाति // द्वितीयं गोपनप्रकारमशस्तार्थान्तरं व्यञ्जयतियथा वा'सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः / निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे // 145 // ' अत्र धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे निपतन्तीत्यस्यामङ्गलार्थान्तरत्वेऽपि 'हंसानहं धार्तराष्ट्रानिति व्यपदिशामि' इति वक्ष्यमाणवाक्यगुप्तत्वाद्गुणत्वम् // - यथा वेति / पक्षः पतत्रं परिकरश्च / आशा दिक् प्रत्याशा च / मदः क्षबिता दर्पश्च / निपात आगमनं शस्त्रादिहतानां मेदिनीसंगतिश्च / रङ्गमगलान्तः खस्त्ययनप्रवृत्तस्य सूत्रधारस्य मङ्गलार्थाधिकारवस्तुप्रस्तावनं तावद्बुद्धिपूर्वकमत्र न संभवति हंसानहमित्यादिना तात्पर्यस्य नियमितत्वात् / खशक्त्या तु पदार्थान्तरमा 1. 'मुहूर्ते' ख. 2. 'रात्रे' ख. 3. 'विनयस्त्रायता' ख. 4. वाक्यान्तरगुप्तत्वात्' ख.