________________ '1 परिच्छेदः / सरखतीकण्ठाभरणम् / अत्र जन्मभूमिसंबाधसुभगभगिनीशब्दानामश्लीलार्थान्तरत्वेऽपि प्रथमार्थप्रभावभावनागुप्तत्वाद्गुणत्वम् // यदाह 'वस्तुमाहात्म्यगुप्तस्य पदार्थस्य विभावनात् / भगिनीभगवत्यादि नासभ्यत्वेन भाव्यते // ' यस्य पदस्य व्युत्पत्तिलभ्यमर्थान्तरं ग्राम्यम् , यस्य वा समभिव्याहारलभ्यम्, तत्र गोपनं समाधानबीजम् / तदुभयं भवति रूढेर्वा बलवत्त्वं जलधरादिष्विव तथा तात्पर्योनयनप्रतिबन्धेन विपरीतार्थतात्पर्योन्नयनपर्यवसानं वा / यथोदाहरि प्यमाणे तथा च प्रतीतेरप्रत्यूहे दूषणताबीजाभावस्तत्र प्रथमकक्षापक्षीकरणेनाद्यमुदाहरति / रूढयुपस्थापितः प्राथमिकोऽर्थस्तस्य भावो झटिति वाक्यार्थज्ञानं तस्य भावना वासना तया गोपनं चमत्कारार्पणमतिरोधानम् / अमुमेवार्थमाचार्यमतेन खहस्तयति-वस्तुमाहात्म्येति / अविभावनादिति / विरुद्धं व्रीडादायितया भावनं तस्याभावात् / तेन क्वचिद्योगोपादानेऽपि तथाभावसंपत्तौ न दोषः / एतदेवोदाहरणेन स्फुटयति-भगिनीति / एतेन भगवतीति पूर्वानुपात्तमुदाहरणं व्याख्यातम् / द्वितीयगोपनमशस्तार्थान्तरे व्यक्तीभविष्यतीति // लक्षिते यथा 'ब्रह्माण्डकारणं योऽप्सु निदधे बीजमात्मनः / उपस्थानं करोम्येष तस्मै शेषाहिशायिने // 143 // अत्र ब्रह्माण्डोपस्थानशब्दयोरसभ्यस्मृतिहेतुत्वेऽपि अन्यत्र लक्षितत्वाद्गुणत्वम् // .. यस्य पदस्यैकदेशो ग्राम्यानुगामी तस्य स्मृतिहेतुता / तत्र कुत्रचिदुक्तिवैचित्र्यादेकदेशो झटिति स्मारकः, क्वचित्तथैव समुदायशक्त्या विपरीतार्थोपस्थापनाज्झटिति खार्थ समुदाय एव प्रतिपादयति / आद्यो दूषणम् / द्वितीयस्तु वैजात्याभावाद्गुणः / तदेवं.लक्षणं यत्राये ग्राम्यत्वं ततोऽन्यत्रैव बहुधा लक्षणात्तदिदमुक्तम्-अन्यत्र लक्षितत्वादिति // . 1. 'स्याविभावनात्' इति पाठष्टीकानुसारी भवेत्.