________________ काव्यमाला त्याद्यनुप्रासवत्प्रोंढपदसजातीयमेव तलपदम् / एवं गल्लेत्यादौ बोद्धव्यम् / तदिदमाह-अत्र तल्लगल्लेत्यादि / ग्राम्यं घृणावदश्लीलामङ्गलार्थ यदीरितम् / तत्संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति // 105 // तत्र संवीते यथा'तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने योजयितुं यतस्त्र / योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् // 141 // ' अत्र तद्वीर्यनिषेकभूमिरित्यश्लीलस्यापि संवीतत्वाद्गुणत्वम् // यदाह 'संवीतस्य हि लोकेषु न दोषान्वेषणं क्षमम् / शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना // ' ग्राम्यमिति / अत्र केचिद्यथासंख्यं व्याचक्षते-घृणावदादीनां त्रयाण क्रमेण संख्यानगोपनलक्षणानि दोषत्वाभावबीजानीति, तदसत् / घृणावदादिमात्र एवाग्रे प्रतिसंभेदत्रिकमुपादाय संव्यानादित्रिकस्योपदर्शनात् / एतादृशयथासंख्यसूचनायैव लक्षणातिक्रमेण घृणावतः प्रथममुपादानम् / तस्मात्संख्यानमिव संख्यानं लोकानुमतिः / किंचित्पदं दुष्टजातीयमपि लोके नोपादानात्ताद्रूप्यं जहात्येव / प्रायेण लोकानुसारि काव्यदर्शनं भवत्यतः प्रतिस्खं भेदत्रितयसंबन्धादुपपन्नं यथासंख्यं स्यादित्यभिधाय पूर्वक्रमेणोदाहरति-अत्रेति / एतेन संवीतेष्वित्यादिकं बहुवचनं व्याख्यातम् / यथा शिवलिङ्गस्य संस्थान इत्यत्र यद्यपि मुख्यविधैव शिवलिङ्गपदमश्लील एवार्थे, तथाप्यविगानेनादिप्रयोगयोगित्वान व्रीडादानक्षमं तथेहापि तद्वीर्येति। शिवलिङ्गेत्यत्र भगवत्संबन्धः प्रयोजक इति तु तुल्यमत्रापीत्याह-तदिति / अत्र हि जगदन्तर्यामिणो भगवतस्तद्विरोधितया प्रसिद्धिरुपजीव्या तदुपजीवने व्रीडादायिनी प्रतीतिरनुत्थायिन्येव / अत्रैवाचार्यमतं लिखति-संवीतस्य हीति / कस्यासभ्यत्वेति / भावना सकललोकसाधारणं ज्ञानम् // गुप्ते यथा'सुदुम्त्यजा यद्यपि जन्मभूमिर्गजैरसंबाधमयांबभूवे / '' स तेऽनुनेयः सुभगोऽभिमानी भगिन्ययं नः प्रथमाभिसंधिः॥१४२॥