________________ '1 परिच्छेदः / सरखतीकण्ठाभरणम् अप्रयोजकमिति / तदेव कविभिरुपादीयत इति यदभिप्रेतसंधिमाधत्ते / यत्र वाक्यार्थप्रविष्टमपि न तथाभावमासादयति तदप्रयोजकमित्युक्तम् / तस्य यदि विशेषस्वरूपाभिधाने पर्यवसानेन प्रयोगो न तर्हि दोषः / तथा हि-आकाशमित्यादौ नातिश्यामतारूपं विशेषमाकाशे कांचिदपि विशेषमात्रामुन्मुद्रयति, आकाशस्य सर्वदा तद्रूपानपायात् / एवमसमग्रस्य सहस्रत्वाभावात्सायमित्यपि न विशेषाधायकम् / आकाशसहस्रयोस्तु यदेव रूपमावेदनीयमित्यत्रैतावन्मात्राभिप्रायेण नास्ति दूषणम् , तथापि नान्तरीयकयोरभिधाने किं प्रयोजनं येनानयोर्गुणभावसंपत्तिरित्यत आह-दूर इति / अतिदूरे श्यामत्वमधिकं प्रतिभाति / क्षणमात्रमपि न विरतिरासीदिति साग्रपदाभिप्रायोऽत एव नात्र पौनरुक्त्यम् / तर्हि वाक्याथै विशेषाधायकत्वमेवानयोरिति कथं दूषणत्वसंभावना / इत्थम् / यस्मिअनुपादीयमानेऽपि नाभिमतन्यूनता तत्पदमप्रयोजकम् / अस्ति चात्र द्वयोरपि तज्जातीयतायां दोषत्वप्रसङ्गः / स प्रकृतोपयोगविवक्षायामेव निवर्तते / सर्वथा प्रकृतानुपयोगे दूषणत्वानपायिता / अस्ति चात्रोचित एवोपयोगो यो विवक्षितुमर्हतीत्याह-विवक्षायामिति // . यदव्युत्पत्तिमद्देश्यमिति पूर्व निरूपितम् / महाकविनिबद्धं सत्तदप्यत्र गुणी भवेत् // 104 // यथा'षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला मालम्ब्योत्तालतल्ल स्फुटितपुटकिनीबन्धवो गन्धवाहाः॥१३८॥ 'पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवम् // 132 / ' 'किरन्तः कावेरीलडहलहरीशीकरकणान् // 140 // ' .... अत्र तल्लगल्ललडहलहरीप्रभृतीनामव्युत्पत्तिमत्त्वेनोद्देश्यत्वेऽपि महाकविभिरङ्गीकृतत्वाद्गुणत्वम् // यदिति / संदर्भच्छायावैषम्यमत्र कष्टताबीजमिति पूर्वमुक्तं तत्र यदि समानच्छायशब्दमध्यनिवेशनेन प्रतिक्षिप्यते तदा कथं दोषः / तथाभूतानामेव पदानां संदर्भनिर्वाहकतया महाकविनिबद्धमिति / अत एव शब्दगमकतया गुणत्वलाभः / उद्दण्डत्वेन पिण्डीतगराणां कठोरता / तादृशानामपि तरलनेन प्रोढिः / उत्ताले 7 स० क.