________________ काव्यमाला। यथा'अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः / भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् // 136 // ' अत्र विपरीतार्थकल्पनं विरुद्धत्वेऽपि संध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद्गुणत्वम् // . यत्तदिति / एवं वस्तु प्रकृतमभिसंधाय वाक्यरचने तदुपमर्दकवस्त्वन्तरप्रवेशो विरोधः / यत्र द्वे अपि वस्तुनी प्रकृते वस्त्वन्तरमेव वा प्रकृतं तद्यथोक्तरूपाभावे कथं दोषः। तथा हि-अभिधायेत्यादौ दूतवाक्ये संधिविग्रहयोमिथो विरोधिनोरपि विवक्षितं स दोषः / सरुषः सक्रोधस्य तव माननां पूजां शिशुपाल इच्छति / अनुशयः पश्चात्तापः / अभिमुखं सोत्कण्ठं मनो यस्य स तथेति संधिपक्षे / विग्रहपक्षे त्वनुशयः क्रोधो भवतः सकाशादभि भयशून्यं मनो यस्येति नित्यसापेक्षत्वात्समासः। सरुषो मानना उपयोगस्तदिह निसृष्टार्थस्योभयोपन्यासो यद्रोचते तद्विधीयतामित्यभिसंधाय रचित इति गुणत्वमित्युभयविवक्षापक्षे व्याख्यानम् / यदा तु शासनहरो दूतस्तदोद्यतेष्वपि शस्त्रेषु यथोक्तवक्तारो दूता भवन्तीति न्यायेन विग्रहार्थमेवाभिमतः विपक्षस्यापि प्ररोचना दूतकर्तव्येति मुखे संधिः पर्यायभूतो युक्त एव। तदिदं व्याख्यानेन स्फुटयति-अत्रेति। संधिरूपोऽर्थः संध्यर्थः, विग्रहरूपोऽर्थो विग्रहार्थः / तयोरभिधानेन स्फुट एव भिन्नोऽर्थः प्रयो. जनम् / पक्षद्वयेऽपि यत्प्रयोजनमुक्तं तदभिप्रायेणैतयाख्यानम् // अप्रयोजकमित्युक्तमविशेषविधायकम् / स्वरूपमात्रे वक्तव्ये तस्यापि गुणतेष्यते // 103 // यथा 'तेऽप्याकाशमसिश्याममुत्प्लुत्य परमर्षयः / साग्रं वर्षसहस्रं स तपस्तेपे महामनाः // 137 // . अत्रासिश्याममित्याकाशं प्रति, साग्रमित्यनेन च वर्षसहस्रं प्रति विशेपानभिधानेऽपि दूरोत्पतनचिरतपश्चरणयोरुपयोगविवक्षायां गुणत्वम् / / 1. 'ते चा' ख.