________________ 1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 95 यदनिश्चयकृत्प्रोक्तं संदिग्धं तद्गुणी भवेत् / भवेद्विशेषावगमो यदि प्रकरणादिभिः // 101 // यथा'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् / / स शार्ङ्गचक्रासिगदाजपाणिर्मेघच्छविः पातु जगन्ति शौरिः॥१३५॥' __ अत्र तस्मिन्नपत्ये इत्यनिश्चितस्याप्यपत्यविशेषस्य संदिग्धत्वेऽपि गौर्यामिति प्रकरणेन गम्यते / मेघच्छविरित्यस्य च नवश्यामादिपदानुपादानेऽपि शौरिसंबद्धत्वान्नवमेघच्छविर्मेघश्यामच्छविरिति वा विशेषो निश्चीयत इति तस्यापि गुणत्वम् // . यदिति / संशायकजातीयस्य संदेहजनकत्वं नाम दूषकताबीजम् / तद्यदि कुतश्चिद्विशेषाद्विवक्षितप्रतीतिरप्रत्यूहमुपपद्यते तदा भवत्येव दोषाभावः। विशेषावगमो विशेषदर्शनं तस्यैव संशयविरोधित्वात्। महीभृत इत्यादावपत्यशब्दो यद्यपि गौरीशब्दोऽपि तदितरदत्तपद इति संशायकजातीयो भवति, तथापि तच्छब्दोपस्थापित एव विवक्षितविशेषे पर्यवस्यन्नपजहाति दोषत्वम् / तच्छब्द एव कथं तमर्थमुपनयतीत्यत्र तु प्रकरणमेव जाग्रदवस्थमस्ति / मेघच्छविरित्यत्र तु यद्यपि मेघपदं श्यामाश्यामदत्तपदतया संशायकजातीयम् , तथापि प्रसिद्धपदनीलवर्णार्थगौरीपदसमभिव्याहाराच्छब्दान्तरसंनिधिरपि विशेषे नियमयति तद्वा छविपदं वा विशेषे पर्यवस्यति। अत्र प्रकरणादीनां विशेषस्मृतिहेतुत्वात्। अत एव सूत्रे बहुवचनादिपदानुपादानादनुपात्तास्तदेतदभिसंधाय व्याचष्टे-अत्रेत्यादि / एवं नवमेघच्छविरिति चोक्ते यथा नियमेनार्थप्रतीतिरप्रत्यूहा भवति तथा मेघच्छविरित्युक्त इति / अत एव कविसमयप्रसिद्ध विशेषावगमसामग्रीसंपादनेन गुणत्वमिति / कथं पुनरिदं क्लिष्टस्य वैशेषिकं न भवति को वाक्यभूतेन भवति / किं तु संशायकत्वमापादयतः प्रतिभासोऽप्युक्तयुक्त्या निवर्तत इत्यभिमतम् / न चैवंरूपता क्लिष्टवैशेषिके संभवति / एकस्यैव चित्रपदस्य संशयशक्तिरिति न वाक्यार्थगामिता // " यत्तद्विरुद्धमित्युक्तं विपरीतप्रकल्पनम् / तथाभूताभिधानेन गुणत्वं प्रतिपद्यते // 102 //