________________ काव्यमाला नेयार्थ यत्स्वसंकेतलुप्तवाच्यं निरूपितम् / प्रहेलिकादिषु प्राज्ञैस्तद्गुणत्वेन गण्यते // 100 // यथा'मोरु कलावेण वहइ तह णामह सरिणाउ / उस्सीसा पाअन्तिगओ अणुणत्तिहिं जणु णाउ // 134 // [मयूरः कलापेन वहति तस्य नाम्नः सदृशनामा / उच्छीर्षात्पादान्तगतोऽनुनक्तं यथा नौका // ] अत्र मयूरबर्हचन्द्रकसंकेतेनं कल्पितस्य चन्द्रनाम्नो नेयार्थत्वेऽपि प्रहेलिकात्वाद्गुणत्वम् // नेयार्थमिति / अत्रापि पूर्ववदेव वासना / आकीर्णामन्त्रणादौ विदग्धानां ' लक्षणादयः प्रहेलिकाविशेषानुन्मीलयन्त उपयुज्यन्ते / तथा हि-मयूरेति / 'जिअनाउ' इति पाठे जितनौक इति स एवार्थः / मयूरो बहभारे चन्द्रकं वहति / अनेन संकेतेन चन्द्रनाम लभ्यते / संविष्टस्य शिरोदेश उच्छीर्षम् , चरणदेशः पादान्तः / उच्छीर्षेण प्राची दिग्लक्ष्यते / 'प्राक्शिराः शयीत' इति वचनात् / अथोत्पादान्तेन प्रतीची। ततश्च 'प्राच्याः प्रतीचिमर्धचन्द्रो गतः' इति प्रातःकालोद्भेदो वाक्यार्थः / 'अणुणेन्ति अजिणणाउ' इति पाठे सुभगमानिनं कान्तमनुनयन्त्या मया ज्ञात हति खण्डितकामिनीखेदोक्तिः / न चैतासां लक्षणानामस्ति किंचित्प्रयोजनमिति नेयार्थत्वप्रसक्तौ प्रहेलिकाभाव एव समाधानहेतुः। ननु चोच्छीर्षपादान्तरपदयोरस्तु, मयूरकलाप इत्यादौ तु कथम् / यमिति हि सर्वनामाभिमतमेव तावदुपस्थापयति / बहे बहूनां बहुले कथमेकस्य प्रतीतिरित्यभिधानेऽपि कदाचिक्लिष्टस्य विशेषगुणः स्यात् / नात्र नेयार्थता, किं तु तेन संकेतेन कल्पितस्य चन्द्रनाम्न इति / तस्य नाम्नः सदृशनामेत्यनेन मुख्यवृत्त्यैव विवक्षितसदृशलाभादिति / अत्रेदं वक्तव्यम्-तस्य नाम्न इत्यनेन चन्द्रकपदमुपस्थापितम् , न च तेन सहास्ति चन्द्रपदस्य सादृश्यमिति / तत्र लक्षणाश्रयणीया / तदिदमुक्त चन्द्रसंकेतेन कल्पितस्य चन्द्रनाम्न इति / उपलक्षणतया च एकदेशव्याख्यानम् // 1. 'तदीरितम्' क-ख.