________________ '1 परिच्छेदः। सरखतीकण्ठाभरणम् / तिव्यवधानम् / तदिदमुदाहरणत्रयप्रयोजनमुदाहरणादेरनेकोऽत्र वाक्यार्थो गवेषणीयः / कथं तर्हि सर्वप्रसिद्धेरिति ब्रवीति / इत्थं शब्दगुणशब्दस्य बहुव्रीहित्वादवश्यं विशेषपर्यवसानाय प्रसिद्धिरनुसरणीया / अवश्यं च वर्णनक्रमेऽपि काञ्चीगुणस्थानमनिन्दिताया इत्यत्र काञ्चीगुणस्थानशब्दस्य नितम्बविशेषपर्यवसानार्थं कवीनामौचित्यप्रसिद्धिरङ्गीकर्तव्येति / ननु चात्मनः पदं शब्दगुणत्वमित्यत्र प्रसादः कस्मान भवति / एवमाह न भवतीति / उदाहरणस्यादूषणत्वात्सामान्यशब्दस्य विशेषपर्यवसानम् , अन्यच्च समभिव्याहृतपदार्थसंसर्गरूपे वाक्यार्थे खच्छसलिल इवाभिमतविशेषप्रतिबिम्बनमित्युपाधिद्वयस्य संकराच्च // अप्रसिद्धार्थसंबन्धं यद्ढार्थमिति स्मृतम् / तयाख्यानादिषु प्रायो गुणत्वेन तदिष्यते // 99 // यथा'अम्हारिसा वि कइणो कइणो हेलिबुढ्सालिपमुहा वि। मण्डुक्कमक्कडा वि हु होन्ति हरीसप्पसिंहा वि // 133 // ' [अस्मादृशा अपि कवयः कवयो हरिवृद्धशालिप्रमुखा अपि / मण्डूकमर्कटा अपि खलु भवन्ति हरिसर्पसिंहा अपि // ] अत्र मण्डूकमर्कटसर्पसिंहेष्वप्रसिद्धप्रयोगत्वाद्गढस्यापि हरिशब्दस्य खयं व्याख्यातत्वाद्गुणत्वम् // . अप्रसिद्धार्थसंवन्धमिति / तस्य गुणार्थस्य व्याख्यानं तद्व्याख्यानम् / अत्राप्यतिप्रसिद्ध्याकृष्टस्यानतिप्रसिद्धार्थप्रतीत्यकरणं दुष्टताबीजमभिधानीयम् , तत्तु प्रतीतिपर्यवसानादेव निवर्तते / भवति चाभिधानकोष इव व्याख्याने झटिति प्रत्ययः / अस्मादृशा अपि मन्दप्रतिभानाः कवयः कविशब्दवाच्या हरिवृद्धशालिप्रमुखाश्च लोकोत्तरप्रतिभाशालिनस्तदवयंवतां विख्याते चाविख्याते च शब्दाः साधारणा भवन्ति / तद्यथा-हरिशब्द एवेति व्याख्यानम् / ततो दोषत्वाभावः प्रतिवस्तुलक्षणालंकारपर्यवसायितया च प्रकृतार्थानुगुणत्वेन गुणत्वलाभः / तदेतद्याचष्टे-स्वयं व्याख्यातत्याद्दोषाभावो गुणत्वं पुनराभिप्रायिकात्प्रकृतानुगुणभावादिति बोद्धव्यम् // 1. 'अन्द ( चन्द)' ख-ग.