________________ 92 . काव्यमाला अत्राङ्गस्कन्धपञ्चकमित्यस्य शास्त्रमात्रप्रसिद्धस्यापि तद्विद्यसंभाषायां गुणत्वम् // शास्त्रेति / शास्त्रमात्रप्रसिद्धानामाहत्यप्रतीत्यजननेन विवक्षितवाक्यार्थप्रत्ययपरिस्खलनं खेददायी नानामृदुदुष्टताबीजम् / यदि तु कुतश्चिद्विशेषाज्झटित्येव प्रतीतिं जनयेत्तदा कथं दोषः / अस्ति च प्रतिपत्तिव्युत्पत्त्यतिशयलक्षणो विशेषः। तदिदमुक्तम्-तद्विद्येति / मन्त्रणाद्यवसरे औचितीवशात्तत्तत्पदानां गुणत्वमपि निर्वहति / शास्त्रप्रक्रियापेक्षित्वं गाम्भीर्यम् / शास्त्रव्यवहारसंकेतितपदानां गुणत्वमित्यन्यः प्रकारः। यथावद्विनियोगः कार्यस्तस्य प्रकारसाकल्यं शरीरम् , शब्दच्छलात्कायः, आत्मा सारभूतः क्षेत्रज्ञश्च / कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गानि / रूपं संज्ञा संस्कारो वेदना विज्ञानमिति पञ्च स्कन्धाः // ' अर्थप्रतीतिकृद्रे क्लिष्टं नाम यदुच्यते / झटित्यर्थप्रतीतौ तद्गुणत्वमनुगच्छति // 98 // यथा'अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः / पितुः पदं मध्यममुत्पतन्ती काञ्चीगुणस्थानमनिन्दितायाः // 132 // ' अत्रात्मना पदं शब्दगुणमिति पितुः पदं मध्यममिति चाकाशविषया काञ्चीगुणस्थानं नितम्बविषयमिति सर्वप्रसिद्धेझटित्येव प्रतीतिं करोतीति क्लिष्टस्यास्य गुणत्वम् // . __ अर्थप्रतीतिकृदिति / इहापि तदेव दूषणताबीजं झटिति प्रतीतिजनने सति समाधीयते। समाधानोपायश्च पदान्तरसंनिधानमतिप्रसिद्धिः प्रकरणं वा / तथा हि-प्रकृतोदाहरणे उत्तरार्धे हरिरित्यभिधानादात्मनः पदमिति हरेः पदमिति संपन्नम् , अस्य च सामान्यशब्दत्वादाकाशविषया प्रतीतिर्यद्यपि झटिति नोत्पत्तुमर्हति, तथापि शब्दगुणमिति विशेषणेन पदार्थान्तराद्यवच्छिद्य विवक्षिताभिमुखी प्रतीतिरुपजन्यते / पितुः पदमिति / यद्यपि पदमिति सामान्यं तथाप्याकाशस्यैव मध्यमचरणविन्यासस्थानत्वेन प्रसिद्धेर्न तथोचितप्रतीतिव्यवधानम् / काञ्चीगुणस्थानमिति / चरणादारभ्य वर्णनाक्रमे नितम्ब एव काञ्चीनिवेशनस्योचितत्वान प्रती