________________ .1 परिच्छेदः। सरखनीकण्ठाभरणम् / 91 शब्दविकासे न दोषः, किं तु गुण एव / प्रकृतोदाहरणे द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति च निदर्शनं मन्यन्ते / षोडशादिशब्दानामपि वंशस्थप्रवेशत्वादनन्यगतिकत्वाभावात् / हिरण्यपूर्व कशिपुमिति तु संगच्छते / नहि हिरण्यकशिपुशब्दोऽत्र प्रविशति / प्रदर्शनार्थं तु द्वयमन्यदप्युपात्तम् / एवंविधः शब्दविस्तरो गुणतामासादयतीत्याशयात् / तेनायमर्थः--पल्लवाख्यशब्दगुणे तावत्तच्छता चमत्कारकारितया गुणधुराधिरूद्वैवाविस्तर विविक्तविषयतया व विशेषगुणस्य भवतीति जिज्ञासायां तु छन्दोऽनुरोधो विहितः / सोऽपि हि कादाचित्कः करोत्येव दोषभावव्यावृत्तिमिति // प्रतिपादितमादौ यदसमर्थमवाचकम् / तस्यापि खलु मन्यन्ते गुणत्वं सीत्कृतादिषु // 96 // यथा'आशु लचितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या / रक्तवैणिककराहततन्त्री मण्डलक्कणितचारु चुकूजे // 130 / ' अत्र कूजितस्य पक्षिणोऽन्यत्रावाचकत्वेऽपि कामशास्त्रेऽनुमतत्वाद्गुणत्वम् // प्रतिपादितमिति / अस्ति कश्चिदेवं विषयो यत्रासमर्थस्य चारुतया गुणभावः / तथा हि---यद्यपि गणपाठादव्यक्तशब्दः कूजितम् , तथापि लोके पक्षिविषय एव नितम् , तथा चाभिमतविषये, प्रयुक्तं पक्षिविरुताकारमावेदयति / 'हारीतप्रभृति-' इत्यादिना कामशास्त्रकारैः सीत्कारोपदेशनात् / सीत्कारस्य च चतुःषष्टिकलात्वेन प्रवणतयात्यन्तमुपादेयत्वात् / तदाह-'अन्यान्यप्याकृतिग्रहणान्युपलक्षयेत्' इति // . शास्त्रमात्रप्रतीतत्वादप्रतीतं यदुच्यते / गुणत्वं तस्य तद्विद्यसंभाषादौ विदुर्बुधाः // 97 // यथा' 'सर्वकार्यशरीरेषु मुक्ताङ्गस्कन्धपञ्चकम् / सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् // 131 // '