________________ काव्यमाला / यथा'खातयः कनि काले ते स्फातयः स्फार्हवल्गवः / चन्द्रे साक्षाद्भवन्त्यत्र वायवो मम धारिणः // 128 // अत्र खातय इत्यादीनां घर्घरिकादौ धृङश्चानवस्थाने न रूढिः / गूढार्थे तु प्रहेलिकादौ तन्न दुष्यतीति तेषां दोषगुणत्वम् // यत्त्विति / रूढिच्युतत्वेन द्वितीयां संज्ञां प्रयोजयति। आकीर्णामन्त्रणाद्युपयोगिनी प्रहेलिका / तथा च तद्विद्यसंभाषायां विदग्धैरुपन्यासैः खार्थाप्रत्यायकत्वलक्षणबीजाभावान्न दोषः, गुणस्तु भवति / अनुकरणादिकमादिपदेन गृह्यते / खातयो घर्घरिकाः / कनीति कम्यासंबोधनम् / कालश्चरणः कर्णाटदेशभाषानुसारात् / स्फातयः स्फीताः / स्फार्हो मनोहरः / वल्गुलनिः। चन्द्र आह्लादकः / वायवः प्राणाः / धारिणोऽनवस्थिताः / तदयं वाक्यार्थः हे कनि कन्ये, तवालादकचरणबद्धा यथोक्तविशेषणा घरिकाः साक्षाद्भवन्ति श्रोत्रेण प्रत्यक्षीक्रियन्ते / अत्र प्रस्तावे मम प्राणा उद्दीपनप्रकर्षमसहिष्णवो धारिणोऽनवस्थिता इति / व्रणप्ररोहस्थानादौ खात्यादिशब्दानां रूढिन तु घघरिकादावित्याह-अत्रेति / नामधातुविवक्षया द्विधा व्याख्यातम् // तुच्छवाच्यमपुष्टार्थमिति यत्प्राक्प्रकाशितम् / तस्य च्छन्दोऽनुरोधादौ गुणत्वमवधार्यते // 95 // यथा'द्विरष्टवर्षाकृतिमेनमर्थिनामुशन्ति कल्पोपपदं महीरुहम् / यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते // 129 // ' अत्र द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति हिरण्यपूर्व कशिपुमित्यस्य तुच्छार्थत्वेऽपि च्छन्दोऽनुरोधाद्गुणत्वम् / / तुच्छेति / शब्दपल्लवनस्य प्रकृतरसाननुगुणत्वेन दोषत्वप्रसङ्गे क्वचिदनन्यगतिकतया कवेरुत्पाद्यते / तथा हि-भिन्नसर्गान्तरित्यादिना सर्गाणामौत्सर्गिकैकवृत्तनिर्वाहौचित्ये स यथोक्तसंक्षिप्तशब्दाप्रवेशात्पररूपेण तदर्भत्वस्य विवक्षितत्वाच्च 1-2. 'खादयः' ख.