________________ 88 काव्यमाला / पध्मातकम्पितादयः / हुं हु इति द्वितीयहुंकारे बिन्दुप्रोञ्छनान्म्लिष्टम् / मममेति किं मुञ्च मुञ्चति म्लिष्टमुत ममेति न निश्चीयते / अनुकरणत्वाहुणत्वमिति / अर्थविशेषे हि साधुत्वव्यवस्थेति / यच्चाशक्तिजमसाधुरूपम् , तस्यानुकरणे साधुत्वमिष्यत इत्युक्तम्, अनुक्रियमाणं तु स्वरूपपदानुकरणतया पूर्वार्थत्यागेन साध्वेव। तस्यैवानुकरणस्य तत्कालरञ्जकमानवतीमममवचनानुकारतया च गुणीकरणसामर्थ्यमिति॥ गुणत्वमप्रयुक्तस्य तथानुकरणे भवेत् / यथा'दिवं पत्काषिणो यान्ति येऽचीकमत भाषिणः / पत्काषिणोऽपि नो यान्ति ये वचन्ति प्रयुञ्जते // 124 // ' अत्राचीकमत वचन्तीत्यादिपदानां कविभिरप्रयुक्तानामप्यनुकरणत्वाद्गुणत्वम् // गुणत्वमिति / पत्काषिण इति पादमपि कषन्तः। “हिमकाषिहतिषु च' इति पादशब्दस्य पद्भावः / वर्वचन्तीत्येव रूपमप्रयुक्तम् / न त्वन्यथापि / 'सत्यं नाम न वच्मि' इत्यादेरनुमतत्वात् / इत्यादिपदानामित्युदाहरणान्तराभिप्रायेण // यच्छु तेविरसं कष्टं तस्य दुर्वचकादिषु / गुणत्वमनुमन्यन्ते सानुप्रासस्य सूरयः // 92 // यथा'त्वाष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः / धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे च नोष्ट्रिणः // 125 // ' अत्र श्रुतिविरसत्वात् कष्टत्वेऽपि दुर्वचकत्वाद्गुणत्वम् / / यच्छुतेरिति / दुर्वचकयोगा इति व्यावहारिकचतुःषष्ट्यां दुर्वचकप्रयोगोऽनुमतः। तस्यानुप्रासघटकत्वेऽलंकारनिर्वहणक्षमतया कविशक्तिव्यञ्जकस्य गुणीभावः / आदिपदेन रौद्रादिरसानुप्रवेशः / यदाह 'शषौ सरेफसंयोगौ टवर्गश्चापि भूयसा। विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युताः // 1. 'नाष्ट्रा' : ख-ग; 'नांष्ट्रा' इति पठित्वा 'नांष्ट्रा राक्षसाः' इति व्याख्यातं काव्यानुशासनविवेके हेमचन्द्राचार्यैः.