________________ "1 परिच्छेदः। सरस्वतीकण्ठाभरणम् / संप्रत्यतिप्रसनवारणार्थ क्रमप्राप्ता वैशेषिकगुणा लक्षितव्याः। ते च दोषा अपि सन्ती गुणीभावमापन्ना उच्यन्ते / तत्रैष कवीनामालापः 'सामण्णसुन्दरीणं विन्भममुव्वहइ अविणओच्चे। धूमोच्चिअ पज्जलिआणं बहुमओ सुरहिदारूणम् // ' दारुणानां गुणत्वमिति शङ्कां दर्शयन्नाह पदाद्याश्रितदोषाणां ये चानुकरणादिषु / गुणत्वापत्तये नित्यं तेऽत्र दोषगुणाः स्मृताः // 89 // त्रिविधा अपि ते भूयश्चतुर्विंशतिधा बुधैः / प्रोक्ता यथा गुणत्वेन प्रविभज्य तथोच्यते // 9 // या म्लिष्टम्लेच्छितादीनां पददोषेष्वसाधुता / निरूपितानुकरणे गुणत्वं सा प्रपद्यते // 91 // ... यथा'उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या / हुंहु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम् // 123 // ' अत्र हुं हु मममेत्यसाध्वोरपि म्लिष्टम्लेच्छितयोरनुकरणत्वाद्गुणत्वम्॥ पदादीति / पदवाक्यवाक्यार्थदोषाणां गुणत्वापत्तये नित्यं ये भवन्ति, तेऽनुकरणादिषु मध्ये दोषगुणाः स्मृता इति संबन्धः / यद्यपि चानुकरणादिका एव न गुणाः, तथाप्यनुक्रियमाणाद्यभेदोपचारेणोक्तम् / पदादिदोषेष्वन्त्यान्त्यस्यैकस्य नवधाभेदे चतुर्विंशतिप्रकाराः / यथेति / येनोपाधिना गुणीभवनमाचार्यैरुपपादितं तत्तदुपाधिविभागप्रदर्शनं करिष्यत इति / या म्लिष्टेति / इह द्वये दोषा नित्या अनित्याश्च / तत्रानुकरणमात्रानपवदनीयदोषभावाश्युतसंस्काराप्रयुक्तादयो नित्याः / अनुकरणीयानुकरणानपवादकहेतुकाः श्रुतिकटुत्वप्रभृतयस्त्वनित्याः / येषु पददोषेषु म्लिष्टम्लेच्छितप्रभृतीनां यासाधुता निरूपिता, सा गुणत्वमनुकरणे प्रपद्यत इत्यन्वयः। लुप्तैकदेशं म्लिष्टम् / अव्यक्तरूपं म्लेच्छितम् / आदिग्रहणेन ग्रस्तनिरस्तो१. . 'सामान्यसुन्दरीणां विभ्रभमुद्वहत्यविनयोच्छ्रायः / धूमोच्चयः प्रज्वलितानां बहुमतः सुरभिदारूणाम् // ' इति छाया. 2. 'कचि हूषणानामपि गुणत्वमिति दर्शयन्नाह-' इति भवेत,