________________ 86 काव्यमाला / . अत्राभीष्टस्य नायकनायिकासंगमस्य भङ्गया भणनमुक्तिः // उक्तिरिति / स्वीयोऽभीष्टोऽर्थः खार्थः। तस्य साक्षात्प्रतिपादनमनुचितमिति अर्थान्तरभङ्गिभिः प्रतिपादनमर्थगुणः / भव्यो मनोहरः / सुगममन्यत् / नायकनायिकासंगमस्येति / नायकस्य नायिकया तस्याश्च नायकेनेति परस्परोत्कण्ठाप्रकर्षों विवक्षितः / तेनैकशेषो न भवति // विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता // 88 // यथा'स्वद्वक्रेन्दुविलोकनाकुलधिया धात्रा त्वदीयां श्रियं निक्षिप्य प्रतिराजकेषु विदुषां लक्ष्म्या त्वमापूरितः / तेनैते नियतं दरिद्रति गृहेष्वेषामियं दृश्यते नैनामाद्रियसे त्वमिच्छसि नु तां त्वामेव सा धावति // 122 // अत्र त्वद्वत्रविलोकनाकुलेन धात्रा त्वदीया लक्ष्मीः शत्रुषु निक्षिप्य विदुषां च लक्ष्मीस्त्वय्यारोपिता। अतस्त्वं विपक्षलक्ष्मीमाद्रियसे सा च त्वामनुधावति / या च विदुषां लक्ष्मीस्तया त्वमापूरितस्तेन ते दरिद्राः / अत एव त्वमेनां नाद्रियसे / इयं च विद्वद्गहेष्वेव दृश्यते इत्येतावतः प्रभूतस्यार्थस्यानेकवाक्येन प्रतिपादितत्वाद्विवक्षितार्थनिर्वहणं प्रौढिः // विवक्षितेति / कवेरभिमतस्य भूयसोऽप्यर्थस्य खल्पेनैव वाक्येन प्रतिपादनं प्रौढिः / तथा हि-त्वां निर्माय जगद्विलक्षणवस्तुनिर्वहणचमत्कृतस्य धातुस्त्वदुवेन्दुविलोकनं तदासङ्गेन त्वदर्थनिर्मितायाः श्रियः प्रतिराजकेषु भ्रमणक्रमेण संचारणं तत्पूर्वापरप्रतिसंघात(न)बलाद्विद्वद्भ्यो लक्ष्मीमाकृष्येत्यादिको भूयानर्थः स्तोकेन वाक्येनोपनीत इति // 1 यतः ग...