________________ '1 परिच्छेदः / ] सरखतीकण्ठाभरणम् / हु हुं हुं श्रान्तोऽहं शिशयिषुरिहैवापवरके ___ व यामिन्यां यासि खपिहि ननु निर्देशमशके // 119 // ' अत्र प्रश्नादर्थमवगम्य उत्तरादर्थान्तरावगमो गतिः // गतिरिति / अर्थादर्थविशेषात् / हृदयसंवादिन इति यावत् / अर्थान्तरस्य तथाभूतस्य / तेन यत्र सहृदयहृदयंगमादर्थात्कांस्यतालानुस्खानुस्खानन्यायेन तादृशमर्थान्तरमवगम्यते सा गतिरिति लक्षणार्थः // शुभे कोऽयं वृद्ध इति / सर्वाकारमनवद्यायास्तावद्दास्यमपि नायमर्हतीति हृदयानुकूलमर्थ प्रश्नादवगत्य गृहपरिवृढ इत्युत्तरम् / अस्मादपि मम नायं कोऽपि किं तु गृहखामीति हृदयसंवादिनमर्थमवधार्य किं तव पितेत्यादिकप्रश्नोत्तरशृङ्खला गवेषणीया। तदेतद्याचष्टेउत्तरादिति / उत्तरप्रत्युत्तरवाक्यात् / उत्तरं तु पदं प्रश्नपदमेव // रीतिः सा यस्त्विहार्थानामुत्पत्त्यादिक्रियाक्रमः // 8 // यथा'प्रथममरुणच्छायस्तावत्ततः कनकप्रभ स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः / प्रभवति पुनन्तिध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविमंगलाञ्छनः // 120 // अत्रोदयादारभ्य चन्द्रस्योत्पत्त्यादिक्रियाक्रमो रीतिः // रीतिरिति ! उत्पत्त्यादीनां क्रियाणां क्रमः काव्यशोभावहत्वेन गुणः / नेदं वस्तुखभाववर्णनमिति जातेरर्थव्यक्तेश्च भेदः / सुगममुदाहरणम् // उक्तिर्नाम यदि स्वार्थो भङ्गया भव्योऽभिधीयते / * यथा'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः / अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वामतः शेषं चेत्स्याजितमिह तदानीं गुणितया // 121 // '